द्रव्यं द्विधा १. सापेक्षम् २. अनपेक्षं च।
तयोराद्यं गुरुः, पिता, पुत्रः, भ्राता, जामाता, मित्रम्, माता, स्वसा, दुहिता, याता, ननान्दा, भार्या इति।
द्वितीयं यथा— चैत्रः, मैत्रः, इन्द्रः, उपेन्द्रः, चन्द्रः, सूर्यः, कालः, आकाशः, प्राची, प्रतीची, शची, लक्ष्मीरिति।
परिमाणं द्विधा १. नियतम् २. अनियतञ्च।
तयोराद्यं यथा— द्रोणः, खारी, पलम्, भारः, क्रोशः, योजनम्, निवर्त्तनम्, नल्वः (तल्पः), पणः, पुराणः, गणः, अक्षौहिणी—ति।
द्वितीयं यथा— संघः, पूगः, सार्थः, समाजः, वर्गः, श्रेणिः, कुटुम्बम्, परिषत्, पङ्क्तिः, यूथम्, वनम्, सेना इति।
२. गुणसंख्यावचनसर्वनामान्यनाविष्टलिङ्गानि। तेषु गुणो द्विधा १. अनुरञ्जकः २. अननुरञ्जकश्च।
तत्राऽनुरञ्जकयोगात् तदनुरक्तानि यथा श्वेता, स्वादु, शीघ्रं, मन्दं, दीर्घं, ह्रस्वम्, ऋजु, वक्रम्, मृदु, कठिनं, युवा, वृद्ध इति।
अननुरञ्जकयोगात् तद्विपरीतानि यथा— दक्षः, जिह्म—जड—प्राज्ञ—खल— साधु—स्निग्ध—क्रूर—शूर—भीरु—लघु—गुरु—रिति।
संख्या द्विधा १. लिङ्गवती २. अलिङ्गा चेति। तयोः —
आद्या लिङ्गवती यथा— एकः, एका, एकम्, द्वौ, द्वे, उभौ, उभे, त्रयः, तिस्त्रः, त्रीणि, चत्वारः, चतस्त्रः, चत्वारीति।
द्वितीया (अलिङ्गवती) यथा— पञ्च प्रातिपदिकार्थाः (मभा. ५.३.७४), पञ्च वृत्तयः, पञ्च पदजातानि, षड् विषयाः, षड् बुद्धयः, षडिन्द्रियाणि, अष्टौ वसवः, अष्टौ मूर्त्तयः, अष्टौ वर्णस्थानानि, दश दिशः, षोडश पदार्थाः, अष्टादश पुराणानि' इति।
सर्वनामानि द्विधा १. सर्वादीनि २. असर्वादीनि च। तेषु—
आद्यानि यथा — 'सर्व, विश्व, अन्य, इतर, कतम, यः, सः, एषः, अयं, त्वम् अहम्' इति।
द्वितीयानि यथा— 'प्रथम—चरम—अल्प—कतिपय—पूर्व—पर—अपर—दक्षिण—उत्तर— स्व—अन्तर—सकल—कृत्स्नम्' इति।
(२. अव्ययप्रातिपदिकम्)
प्रायेणाऽलिङ्गसंख्याशक्तीन्यव्ययानि। तानि षोढा—
'१अव्यय—२निपात— ३गत्युपसर्ग४ —कर्मप्रवचनीय५—विभक्तिप्रतिरूप६भेदात्। तेषु प्रायेण शक्तिसंख्याऽयोगात् स्वरादीन्यव्ययानि। यदाह (मभा. १.१.३८)
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ३४ ॥ इति
(१. अव्ययप्रातिपदिकेषु अव्ययानि)
तानि (अव्ययानि) द्विधा १. सत्त्वगन्धीनि २. असत्त्वगन्धीनि च। तेषु— सत्त्वगन्धीनि षोढा १. द्रव्यरूपाणि, २. गुणरूपाणि, ३, क्रियारूपाणि, ४. जातिरूपाणि, ५. संज्ञारूपाणि, ६. सम्बन्धिरूपाणीति।
असत्त्वगन्धीन्यपि षोढैव
१. क्रियापेक्षीणि, २. क्रियाद्रव्यापेक्षीणि, ३. क्रियाविशेषणानि, ४. क्रियाद्रव्यविशेषणानि, ५. क्रियाविशिष्टरूपाणि, ६. क्रियाद्रव्यविशिष्टरूपाणि चेति। तत्र—
सत्त्वगन्धिभेदेषु
१. द्रव्यरूपाणि यथा— स्वः, दिवं, भुवः, विहायसा, रोदसी, आपः, भूः, ऋचः, शम्, महः, तपः, हाहा, हूहू, इति।
२. गुणरूपाणि यथा— शश्वत्, आपत्, नृपत्, कूपत, कुवित्, सामि, साचि, द्राक्, स्त्राक्, ज्योक्, मनाक्, ईषद् इति।
३. क्रियारूपाणि यथा—नमः, स्वस्ति, स्वाहा, स्वधा, वषट्, वौषट्, श्रौषट्, हन्त, अच्छ, अवः, परिवः एव इति।
४. जातिरूपाणि यथा— कम्, शंयोः मयः, सायम्, प्रातः, अस्तम्, नक्तम्, दिवा, दोषा, ह्यः, श्वः' इति।
५. संज्ञारूपाणि यथा— क्िवम्, सः, सोम्, स्वाहा, ह्राम्, ह्रीम्, ब्रूम्, दिङ्, ह्नेङ्, ऋङ्, दुङ् इति।