Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 4 of 40 (Verses 30 shown)
५. कण्वादयो नामधातवः। यथा—
कण्डूयति न यो मर्म नर्मणा यो हृणीयते।
न कुष्यति रुषं यः स राजा राज्यं भिषज्यति ॥ २६ ॥४
१. मन्तूनपराधान् माऽनुस्कुनुहि मोदाहर। स्कुञ् उद्‌धरणे। ऋती घृणागत्योः। घृणा दया। ऋतीयस्व दयस्व। जिजाव/पयिषति। जु वेगितायां गतावित्यस्येति राघवः। जपतेस्तु ग्रहे जिजापयिषति साहसकौलीनश्‍वभ्रे पातयितुमिच्छतीत्यर्थः। २. कण्डनं प्रतीतचरं गाहासु, न तु खण्डनम्। विष्कम्भः स्तूपः। उत्तम्भः उल्लासः। निस्तुभ्नाति गायति। ३. सातिः सुखम्। दाह्येभ्यः सातिः सुखम्। योषित्सु सातिपदार्थाऽऽरोपः। ४. कण्डूयति स्पृशति। हृणीयते लज्जते। कुष् प्रकाशे दैवादिकः, कुष्यति प्रकाशयति। भिषज्यति चिकित्सते। भिषज् चिकित्सायाम्। राघवोऽत्र तैमिरिकायते।
वल्गूयति न योऽसाधुमसूयति न साधवे।
मन्तूयति न मान्याय महत्सु न महीयते ॥ २७ ॥१
कमिषुध्यन्तु यज्वानः कं मगध्यन्तु मागधाः।
कमर्थिनः कुषुभ्यन्तु रामेऽरण्यं भुरण्यति ॥ २८ ॥२
धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि।
आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः ॥
येभ्यः परिपठितधातुभ्यो नामत्वसिद्धये, नामभ्यो वा धातुत्वसिद्धये क्विबादिप्रत्यया लुप्यन्ते ते प्रत्यये नामनि च धातव इ(श्‍चे)ति प्रत्ययनामधातवः। यथा होड—गल्भ— क्लीबप्रभृतयः। यथा—
गिरो गौर्ब्रह्मकामाशीः श्रियः प्रतिभुवौ भ्रुवौ।
शत्रुशीर्मित्रपूर्बाहुर्युधि ते बन्धुता सजूः ॥ २९ ॥
ब्रह्म ब्राह्मणाः, तेषां कामानाशास्ते इति ब्रह्मकामाशीः कामगवी। शत्रूँन् शास्तीति शत्रुशीः, मित्राणि पृणातीति मित्रपूः। सजूः सहजोषणः।
होडसे नाभिजातेषु क्लीबसे नाभिमानिषु।
विदग्धसि न मुग्धेषु नाऽप्रगल्भेषु गल्भसे ॥ ३० ॥
होडृ अनादरे, क्लीब् अधार्ष्ट्ये, गल्भ धार्ष्ट्ये।
सविता विधवति, विधुरपि सवितरति, तथा दिनन्ति यामिन्यः।
यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि३ ॥ ३१ ॥
१. वल्गु मनोज्ञम्। वल्गूयति प्रियंमनुते। मन्तुः क्रुत्। मन्तूयति क्रुध्यति। महीयते मह पूजायामित्यस्य। महत्सु न महीयते पूज्यम्मन्यतां वृणुते। २. इषुध अस्त्रधारणे, यज्वानः कं वीरम्, इषुध्यन्तु इषुधिमन्तं कुर्युः, मगध्यन्तु परिवेष्टयन्तु, मगध परिवेष्टन इत्यस्य। कुषुभ परोपमर्द्देनोपतिष्ठन्ताम्। भुरण्यति भुरण गतौ। भुरण्यति व्रजति। कण्वादिर्नामधातुश्‍च भवति। ३. साधारणधर्मस्य भिन्नत्वान्नोत्रोपमेयोपमा, तृतीयसदृशव्यवच्छेदाऽघटनात्।
१. 'कंसवधमाचष्टे कंसं घातयति',
२. 'आरात्रि विवासमाचष्टे रात्रिं विवासयति',
३. 'पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति',
४. उज्जयिनीतः प्रस्थितो माहिष्मत्यां सूर्योद्‌गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्‌गमयती'—ति।
'आख्यानात् कृतस्तदाचष्ट इति णिच्' कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्', 'आङ्लोपश्‍च कालात्यन्तसंयोगे मर्यादायाम्', नक्षत्रयोगे ज्ञि', 'चित्रीकरणे प्रापी'—ति स्मर्य्यते।
प्रकृतिः षट्प्रकारैषा धातुरूपा निरूपिता।
अथ प्रत्ययरूपापि षट्प्रकारैव कथ्यते ॥ ३२ ॥
Full Table of Contents Next (Ch. 2) →