Skip to main content
Search
Ch. 1 SP 1.94
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.94

Canonical Ref: SP 1.94
Sanskrit (Devanāgarī)
१. मन्तूनपराधान् माऽनुस्कुनुहि मोदाहर। स्कुञ् उद्‌धरणे। ऋती घृणागत्योः। घृणा दया। ऋतीयस्व दयस्व। जिजाव/पयिषति। जु वेगितायां गतावित्यस्येति राघवः। जपतेस्तु ग्रहे जिजापयिषति साहसकौलीनश्‍वभ्रे पातयितुमिच्छतीत्यर्थः। २. कण्डनं प्रतीतचरं गाहासु, न तु खण्डनम्। विष्कम्भः स्तूपः। उत्तम्भः उल्लासः। निस्तुभ्नाति गायति। ३. सातिः सुखम्। दाह्येभ्यः सातिः सुखम्। योषित्सु सातिपदार्थाऽऽरोपः। ४. कण्डूयति स्पृशति। हृणीयते लज्जते। कुष् प्रकाशे दैवादिकः, कुष्यति प्रकाशयति। भिषज्यति चिकित्सते। भिषज् चिकित्सायाम्। राघवोऽत्र तैमिरिकायते।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.94. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.93) All Verses in Chapter 1 Next Verse (SP 1.95) →