Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 9 of 40 (Verses 30 shown)
'हारीतोऽत्रिरहं तथा' इति।
वा, अथ, अथो, यदि, चण्, चेत्, नेत्, मा इति विकल्पार्थाः
यथा—'राज्यं वा कर्त्तव्यं भाष्यं वा श्रोतव्यम्',
'ऋतौ व्यवेयादथाऽनृतौ पर्ववर्जम्',
'नदीषु स्नायादथो देवखाते',
'उपाध्यायश्‍चेदागच्छेद् आशंसे युक्तोऽधीयीय', (मभा. ३.३.१३३)
'नेज्जिह्मयन्त्यो नरकं पताम', (निरुक्तम् १.११.१)
मा कदाचिदिदमापि स्यात्' इति। एवमन्येऽपि प्रयोगाऽनुसारतो द्रष्टव्याः।
एते च विधेरन्यत्रापि वेदितव्या इति ॥
(२. अर्थवादार्था निपाताः) अर्थवादे—
(२.१ कुत्सार्थाः) हा, धिक्, चित्, नाम, किम्, ह, अपि, जात्विति कुत्सार्थाः।
यथा— हा किमेवं प्रवर्त्तसे, धिक् प्रमादः, (मवीच. ५.४६, ४७)
कुल्माषाँश्‍चिदाहर, (निरुक्तम् १.४.१२)
को नामायं सवितुरुदयो यत्र न स्वे स्फुरन्ति,
किमधीते देवदत्तः, (काशिका १.४.९६)
त्वं ह ब्राह्मणोऽसि, (काशिका ८.१.३९)
अपि सिञ्चेत् पलाण्डुम्, (काशिका ८.१.४०)
तत्र जातु गमिष्यसि, (काशिका ८.१.३७) इति।
तु, पश्य, पश्यत, अह, अहो, यथा, यावत्, चिद् इति प्रशंसार्थाः।
यथा यस्तु माणवको भुङ्क्ते,
पश्य माणवको भुङ्क्ते, (काशिका १.४.९६)
पश्यत माणवको भुङ्क्ते, (काशिका ८.१.३९)
अह माणवको भुङ्क्ते, (काशिका ८.१.४०)
अहो देवदत्तः पचति शोभनम्, (काशिका ८.१.३७)
Full Table of Contents Next (Ch. 2) →