Skip to main content
Search
Ch. 1 SP 1.864
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.864

Canonical Ref: SP 1.864
Sanskrit (Devanāgarī)
यश्‍च ब्राह्मणं हन्ति, यश्‍चानुहन्ति, उभौ तौ हतः, यस्तु खल्वेवमसौ ब्राह्मणं हन्तीति तस्याऽनुकुर्वन् कदलीस्तम्भं छिन्द्यान्न स मन्ये पतितः स्यादिति। न चानुकरणमपशब्दः। अन्यो ह्यसावपशब्दपदार्थकः साधुशब्दः, न चापशब्दपदार्थकः शब्दोऽपशब्दो भवति, अपशब्द इत्येतस्याप्यपशब्दत्वप्रसङ्गात्। यः पुनरेवमसावपशब्दं प्रयुङ्क्ते इति तस्यानुकुर्वन्नपशब्दमभिधेयेषु प्रयुङ्क्ते सोऽपशब्दकार्येव भवतीति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.864. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.863) All Verses in Chapter 1 Next Verse (SP 1.865) →