Skip to main content
Search
Ch. 1 SP 1.950
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.950

Canonical Ref: SP 1.950
Sanskrit (Devanāgarī)
नैवम्। अस्त्यत्र विशेषः। तथाहि पञ्चगवप्रिय इत्यादौ नास्य पञ्चसंख्यामात्रं प्रियं, नापि गोमात्रम्, किं तर्हि पञ्चसंख्योपलक्षिताः काश्‍चिदेव गावः, यथा पञ्चाम्राः सप्तर्षय इति। तच्च द्विगौ पूर्वमसति दुरुपपादमेव भवति। एतेन छत्रोपानहप्रिय इत्येतदपि व्याख्यातम्, तत्रापि युगपदधिकरणवचनद्वन्द्वमन्तरेण नाभिवाञ्छितसिद्धिः। न ह्यस्योपनन्मात्रमेव प्रियम् अपितुछत्रमपि, उपानच्छब्दादेव च परः प्रियशब्दो निशम्यमानः न द्वन्द्वं विना छत्रमुपग्रहीतुं शक्नोति। तस्मादनाक्षेप इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.950. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.949) All Verses in Chapter 1 Next Verse (SP 1.951) →