Skip to main content
Search
Ch. 1 SP 1.995
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.995

Canonical Ref: SP 1.995
Sanskrit (Devanāgarī)
यद्येवम् समाहारसमूहयोरविशेषात् समाहारग्रहणमनर्थकम्, 'तस्य समूह' (४.२.३७) इति तद्धितार्थे/नैव कृतत्वात्। तथाहि 'समाहारः समूह' इत्यविशिष्टावेतावर्थौ। तत्र समूह इव समाहारेऽपि तद्धितार्थे द्विगुरित्येव भविष्यति। यदि तद्धितार्थे द्विगुर्भवतीत्युच्यते, तद्धितोत्पत्तिः प्राप्नोति। उत्पद्यताम् लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति। कानि पुनस्तानि? 'पञ्चपूली' 'दशपूली' इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.995. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.994) All Verses in Chapter 1 Next Verse (SP 1.996) →