Skip to main content
Search
Ch. 1 SP 1.992
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.992

Canonical Ref: SP 1.992
Sanskrit (Devanāgarī)
स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः। शाटको वातव्यश्‍चेति विप्रतिषिद्धम्। भाविनी तु खल्वस्य संज्ञाभिप्रेता; स मन्यते — 'वातव्यम्, यस्मिन्नुते शाटक इत्येतद्‌भवती'—ति। एवमिहापि— 'तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्यय उत्तरपदमित्येते संज्ञे भविष्यतः इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.992. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.991) All Verses in Chapter 1 Next Verse (SP 1.993) →