Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 31 of 36 (Verses 30 shown)
PT 1.901 अनुष्टुप्
सामादि-दण्ड-पर्यन्तो नयः प्रोक्तः स्वयम्भुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ॥
PT 1.903 आर्या (१२, १८, १२, १५)
साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥
PT 1.905 अनुष्टुप्
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता । साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥
PT 1.906 अनुष्टुप्
न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना । साम्नैव विलयं याति विद्वेष-प्रभवं तमः ॥
तथा यत्त्वं मन्त्रित्वमभिलषसि, तदप्ययुक्तम् । यतस्त्वं मन्त्रि-गतिं न वेत्सि । यतः पञ्च-विधो मन्त्रः । स च कर्मणामारम्भोपायः, पुरुष-द्रव्य-सम्पत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश्चेति । सोऽयं स्वाम्य्-अमात्ययोरेकतमस्य किं वा द्वयोरपि विनिपातः समुत्पद्यते लग्नः । तद्यदि काचिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपात-प्रतीकारः । भिन्न-सन्धाने हि मन्त्रिणां बुद्धि-परीक्षा । तन्मूर्ख ! तत्कर्तुमसमर्थत्वं यतो विपरीत-बुद्धिरसि । उक्तं च—
PT 1.908 अनुष्टुप्
मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥
PT 1.910 उद्गीति (१२, १५, १२, १८)
घातयितुमेव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम् । पातयितुमेव शक्तिर्नाखोरुद्धर्तुमन्न-पिटकम् ॥
अथवा न ते दोषोऽयम् । स्वामिनो दोषः । यस्ते वाक्यं श्रद्दधाति । उक्तं च—
PT 1.912 वंशस्थम्
नराधिपा नीच-जनानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये । विशन्त्यतो दुर्गम-मार्ग-निर्गमं समस्त-सम्बाधमनर्थ-पञ्जरम् ॥
तद्यदि त्वमस्य मन्त्री भविष्यसि तदान्योऽपि कश्चिन्नास्य समीपे साधु-जनः समेष्यति । उक्तं च—
PT 1.914 अनुष्टुप्
गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः ॥
तथा च शिष्ट-जन-रहितस्य स्वामिनोऽपि नाशो भविष्यति । उक्तं च—
PT 1.916 अनुष्टुप्
चित्रास्वाद-कथैर्भृत्यैरनायासित-कार्मुकैः । ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥
तत्किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च—
PT 1.918 अनुष्टुप्
नानाम्यं नमते दारु नाश्मनि स्यात्क्षुर-क्रिया । सूची-मुखं विजानीहि नाशिष्यायोपश्यते ॥
सोऽब्रवीत्- कथा १७ वानर-यूथ-कथा
अस्ति कस्मिंश्चित्पर्वतैक-देशे वानर-यूथम् । तच्च कदाचिद्धेमन्त-समयेऽतिकठोर-वात-संस्पर्श-वेपमान-कलेवरं तुषार-वर्षोद्धत-प्रवर्ष-घन-धारा-निपात-समाहतं न कथञ्चिच्छान्तिमगमत् । अथ केचिद्वानरा वह्नि-कण-सदृशानि गुञ्जा-फलान्यवचित्य वह्नि-वाञ्छया फूत्कुर्वन्तः समन्तात्तस्थुः ।
अथ सुचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच-भोः, सर्वे मूर्खा यूयम् । नैते वह्नि-कणाः गुञ्जा-फलानि एतानि । तत्किं वृथा श्रमेण । नैतस्माच्छीत-रक्षा भविष्यति । तदन्विष्यतां कश्चिन्निर्वातो वन-प्रदेशो गुहा गिरि-कन्दरं वा । अद्यापि स-टोपा मेधा दृश्यन्ते ।
अथ तेषामेकतमो वृद्ध-वानरस्तमुवाच-भो मूर्ख ! किं तावदनेन व्यापारेण । तद्गम्यताम् । उक्तं च—
PT 1.924 अनुष्टुप्
मुहुर्विघ्नित-कर्माणं द्यूत-कारं पराजितम् । नालापयेद्विवेक-ज्ञो यदीच्छेत्सिद्धिमात्मनः ॥
PT 1.926 अनुष्टुप्
आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् । समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥
सोऽपि तमनादृत्य भूयोऽपि वानराननवरतमाह-भोः ! किं वृथा क्लेशेन ?अथ यावदसौ न कथञ्चित्प्रलपन्विरमति तावदेकेन वानरेण व्यर्थ-श्रमत्वात्कुपितेन पक्षाभ्यां गृहीत्वा शिलायामास्फालित उपरतश्च ।
अतोऽहं ब्रवीमि-नानम्यं नमते दारु इत्यादि । तथा च—
PT 1.929 अनुष्टुप्
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →