Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 29 of 36 (Verses 30 shown)
PT 1.841 अनुष्टुप्
यो मायां कुरुते मूढः प्राण-त्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैर्नष्टैर्नष्टमेव तत् ॥
एवमभिधाय दमनकः करटक-सकाशमगमत् । करटकोऽपि तमायान्तं दृष्ट्वा प्रोवाच-भद्र ! किं कृतं तत्रभवता ?
दमनक आह—मया तावन्नीति-बीज-निर्वापणं कृतम् । परतो दैव-विहितायत्तम् । उक्तं च—
PT 1.844 अनुष्टुप्
पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता । आत्म-दोष-विनाशाय स्व-चित्त-स्तम्भनाय च ॥
PT 1.845 वसन्ततिलका
तथा च- उद्योगिनं पुरुष-सिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥
करटक आह—तत्कथय कीदृक्त्वया नीति-बीजं निर्वापितम् ।
सोऽब्रवीत्-मयान्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तावेक-स्थान-स्थितौ न द्रक्ष्यसि ।
करटक आह—अहो, न युक्तं भवता विहितं यत्परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ । उक्तं च—
PT 1.849 अनुष्टुप्
अविरुद्धं सुख-स्थं यो दुःख-मार्गे नियोजयेत् । जन्म-जन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥
अपरं त्वं यद्भेद-मात्रेणापि हृष्टस्तदप्ययुक्तम्, यतः सर्वतोऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम् । उक्तं च—
PT 1.851 आर्या (१२, १८, १२, १५)
घातयितुमेव नीचः पर-कार्यं वेत्ति न प्रसादयितुम् । पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥
दमनक आह—अनभिज्ञो भवान्नीति-शास्त्रस्य, तेनैतद्ब्रवीषि । उक्तं च यतः—
PT 1.853 अनुष्टुप्
जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महा-बलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥
तच्-छत्रु-भूतोऽयमस्माकं मन्त्रि-पदाहरणात् । उक्तं च—
PT 1.855 अनुष्टुप्
पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ॥
तन्मया स उदासीनतया समानीतोऽभय-प्रदानेन यावत्तावदहमपि तेन साचिव्यात्प्रच्यावितः । अथवा साध्विदमुच्यते—
PT 1.857 मन्दाक्रान्ता
दद्यात्साधुर्यदि निज-पदे दुर्जनाय प्रवेशं तन्-नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुल-मतिभिर्नावकाशोऽधमानां जारापि स्याद्गृह-पतिरिति श्रूयते वाक्यतोऽत्र ॥
तेन मया तस्योपरि वधोपाय एव विरच्यते । देश-त्यागाय वा भविष्यति । तच्च त्वां मुक्त्वान्यो न ज्ञास्यति । तदुक्तमेतत्ते स्वार्थायानुष्ठितम् । उक्तं च—
PT 1.859 अनुष्टुप्
निस्त्रिंशं हृदयं कृत्वा वाणीमिक्षु-रसोपामाम् । विकल्पोऽत्र न कर्तव्यो हन्यात्तत्रापकारिणम् ॥
अपरं मृतोऽप्यस्माकं भोज्यो भविष्यति । तदेकं तावद्वर-साधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश्चेति । तद्-गुण-त्रयेऽस्मिन्नुपस्थिते कस्मान्मां दूषयसि त्वं जाड्य-भावात् । उक्तं च—
PT 1.861 अनुष्टुप्
परस्य पीडनं कुर्वन्स्वार्थ-सिद्धिं च पण्डितः । मूढ-बुद्धिर्न भक्षेत वने चतुरको यथा ॥
स आह— कथा १६ वज्र-दंष्ट्र-नाम-सिंह-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे वज्र-दंष्ट्रो नाम सिंहः । तस्य चतुरक-क्रव्यमुख-नामानौ शृगाल-वृकौ भृत्य-भूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्य-दिने सिंहेन कदाचिदासन्न-प्रसवा प्रसव-वेदनया स्व-यूथाद्भ्रष्टोष्ट्र्युपविष्टा कस्मिंश्चिद्वन-गहने समासादिता । अथ तां व्यापाद्य यावदुदरं स्फोटयति, तावज्जीवन्लघु-दासेरक-शिशुर्निष्क्रान्तः । सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपागतः । परं स्नेहाद्बाल-दासेकं त्यक्तं गृहमानीयेदमुवाच-भद्र, न तेऽस्ति मृत्योर्भयं मत्तो नान्यस्मादपि । ततः स्वेच्छयात्र वने भ्राम्यतामिति । यतस्ते शङ्कु-सदृशौ कर्णौ । ततः शङ्कुकर्णो नाम भविष्यति ।
एवमनुष्ठिते चत्वारोऽपि न एक-स्थाने विहारिणः परस्परमनेक-प्रकार-गोष्ठी-सुखमनुभवन्तस्तिष्ठन्ति । शङ्कुकर्णोऽपि यौवन-पदवीमारूढः क्षणमपि न तं सिंहं मुञ्चति ।
अथ कदाचिद्वज्र-दंष्ट्रस्य केनचिद्वन्येन मत्त-गजेन सह युद्धमभवत् । तेन मद-वीर्यात्स दन्त-प्रहारैस्तथा क्षत-शरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्-क्षाम-कण्ठस्तान्प्रोवाच-भोः !अन्विष्यतां किञ्चित्सत्त्वं येनाहमेवं स्थितोऽपि तं व्यापाद्यात्मनो युष्माकं च क्षुत्-प्रणाशं करोमि ।
तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्या-कालं यावद्भ्रान्ताः, परं न किञ्चित्सत्त्वमासादितम् । अथ चतुरकश्चिन्तयामास-यदि शङ्कुकर्णोऽयं व्यापाद्येत ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति । परं नैनं स्वामी मित्रत्वादाश्रय-समाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धि-प्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तं च—
PT 1.868 अनुष्टुप्
अवध्यं वाथवागम्यमकृत्यं नास्ति किंचन । लोके बुद्धिमतामत्र तस्मात्तां योजयाम्यहम् ॥
एवं विचिन्त्य शङ्कुकर्णमिदमाह-भोः शङ्कुकर्ण ! स्वामी तावत्पथ्यं विना क्षुधया परिपीड्यते । स्वाम्य-भावादस्माकमपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित्स्वाम्य्-अर्थे वदिष्यामि । तच्छ्रूयताम् ।
शङ्कुकर्ण आह—भोः शीघ्रं निवेद्यतां, येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनोहिते कृते मया सुकृत-शतं कृतं भविष्यति ।
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →