Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 13 of 36 (Verses 30 shown)
नापिती प्राह-सखि, मा मैवं वद । नायं कुलटा-धर्मः । उक्तं च—
विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयो येषाम् । उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥
PT 1.364 आर्या (१२, १८, १२, १५)
सन्दिग्धे पर-लोके जनापवादे च जगति बहु-चित्रे । स्वाधीने पर-रमणे धन्यास्तारुण्य-फल-भाजः ॥
PT 1.366 आर्या (१२, १८, १२, १५)
यदि भवति देव-योगात्पुमान्विरूपोऽपि बन्धको रहसि । न तु कृच्छ्रादपि भद्रं निज-कान्तं सा भजत्येव ॥
साब्रवीत्-यद्येवं तर्हि कथय कथं दृढ-बन्धन-बद्धा सती तत्र गच्छामि । सन्निहितश्चायं पापात्मा मत्-पतिः ।
नापित्याह-सखि, मद-विह्वलोऽयं सूर्य-कर-स्पृष्टः प्रबोधं यास्यति । तदहं त्वमुन्मोचयामि । मामात्म-स्थाने बद्ध्वा द्रुततरं देव-दत्तं सम्भाव्यागच्छ ।
तदनु सा नापिती तां स्व-सखीं बन्धनाद्विमोच्य तस्याः स्थाने यथा-पूर्वमात्मानं बद्ध्वा तां देवदत्त-सकाशे सङ्केत-स्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किंचिद्गत-कोपो विमदस्तामाह-हे परुष-वादिनि ! यदद्य-प्रभृति गृहान्निष्क्रमणं न करोषि, न च परुषं वदसि, ततस्त्वामुन्मोचयामि ।
नापित्यपि स्वर-भेद-भयाद्यावन्न किंचिदूचे, तावत्सोऽपि भूयो भूयस्तां तदेवाह । अथ सा यावत्प्रत्युत्तरं किमपि न ददौ, तावत्स प्रकुपितस्तीक्ष्ण-शस्त्रमादाय नासिकामच्छिनत् । आह च-रे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस्तोषयिष्यामि । इति जल्पन्पुनरपि निद्रा-वशमगात् ।
देवशर्मापि वित्त-नाशात्क्षुत्क्षाम-कण्ठो नष्ट-निद्रस्तत्सर्वं स्त्री-चरित्रमपश्यत् । सापि कौलिक-भार्या यथेच्छया देवदत्तेन सह सुरत-सुखमनुभूय कस्मिंश्चित्क्षणे स्व-गृहमागतय तां नापितीमिदमाह-अयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः ।
नापित्याह-शिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं तां मोचय बन्धनाद्यावन्नायं मां पश्यति, येन स्व-गृहं गच्छामि ।
तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह-पुंश्चलि ! किमद्यापि न वदसि ? किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्ण-च्छेदेन करोमि ?
अथ सा स-कोपं साधिक्षेपमिदमाह-धिङ्महा-मूढ ! को मां महा-सतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच्छृण्वन्तु सर्वेऽपि लोक-पालाः ।
PT 1.376 वसन्ततिलका
आदित्य-चन्द्र-हरि-शंकर-वासवाद्याः शक्ता न जेतुमतिदुःख-कराणि यानि । तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ॥
तद्यदि मम सतीत्वमस्ति, मनसापि पर-पुरुषो नाभिलषितः, ततो देवा भूयोऽपि मे नासिकां तादृग्-रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते पर-पुरुषस्य भ्रान्तिरपि भवति, मां भस्मसान्नयन्तु । एवमुक्त्वा भूयोऽपि तमाह-भो दुरात्मन् ! पश्य मे सतीत्व-प्रभावेण तादृश्येव नासिका संवृत्ता ।
अथासावुल्मुकमादाय यावत्पश्यति, तावत्तद्-रूपां नासिकां च भूतले रक्त-प्रवाहं च महान्तमपश्यत् । अथ स विस्मित-मनास्तां बन्धनाद्विमुच्य शय्यायामारोप्य च चाटु-शतैः पर्यतोषयत् । देवशर्मापि तं सर्व-वृत्तान्तमालोक्य विस्मित-मना इदमाह—
PT 1.379 अनुष्टुप्
शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसश्चैव सर्वास्ता योषितो विदुः ॥
PT 1.380 अनुष्टुप्
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि । अप्रियं प्रिय-वाक्यैश्च गृह्णन्ति काल-योगतः ॥
PT 1.381 अनुष्टुप्
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्त्री-बुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥
PT 1.382 अनुष्टुप्
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥
PT 1.384 उपजातिः
नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद्बलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लून-पक्षैः ॥
सुमुखेन वदन्ति वगुना प्रहरन्त्येव शितेन चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्-विषम् ॥
PT 1.386 वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । पुरुषैः सुख-लेश-वञ्चितैर्मधु-लुब्धैः कमलं यथालिभिः ॥
PT 1.388 स्रग्धरा
आवर्तः संशयानामविनय-भवनं पत्तनं साहसानां दोषाणां संनिधानं कपट-शत-मयं क्षेत्रमप्रत्ययानाम् । स्वर्ग-द्वारस्य विघ्नं नरक-पुर-मुखं सर्व-माया-करण्डं स्त्री-यन्त्रं केन सृष्टं विषममृत-मयं प्राणि-लोकस्य पाशः ॥
PT 1.389 शार्दूलविक्रीडितम्
कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कच-संचये च वचने मान्द्यं त्रिके स्थूलता । भीरुत्वं हृदये सदैव कथितं माया-प्रयोगः प्रिये यासां दोष-गणो गुणो मृग-दृशां ताः स्युर्नराणां प्रियाः ॥
PT 1.390 वसन्ततिलका
एता हसन्ति च रुदन्ति च कार्य-हेतोर्विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुल-शील-समन्वितेन नार्यः श्मशान-घटिका इव वर्जनीयाः ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →