षड्-अक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽभिजायते ॥
तच्छ्रुत्वाषाढ-भूतिस्तत्-पादौ गृहीत्वा स-प्रश्रयमिदमाह-भगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु ।
देवशर्मा आह—वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठ-मध्ये न प्रवेष्टव्यम् । यत्-कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च—
दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालसाद्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात्स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥
तत्त्वया व्रत-ग्रहणानन्तरं मठ-द्वारे तृण-कुटीरके शयितव्यमिति ।
स आह—भगवन् ! भवद्-आदेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।
अथ कृत-शयन-समयं देवशर्म-निग्रहं कृत्वा शास्त्रोक्त-विधिना शिष्यतामनयत् । सोऽपि हस्त-पादावमर्दनादि-परिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढ-भूतिश्चिन्तयामास-अहो, न कथञ्चिदेष मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशु-धर्मेण व्यापादयामि ?इति ।
एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्य-पुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपण-कृते मम गृहमागम्यतामिति ।
तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्ट-मनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्था-मध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तद्-अनन्तरमाषाढभूतिमिदमाह-भो आषाढभूते ! यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावदेषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्युक्त्वा गतः ।
आषाढभूतिरपि तस्मिन्नदर्शनी-भूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति तावत्सुवर्ण-रोम-देह-यूथ-मध्ये हुडु-युद्धमपश्यत् । अथ रोष-वशाद्धुडु-युगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालट-पट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वा-लौल्येन रङ्ग-भूमिं प्रावेश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयत्-अहो मन्द-मतिरयं जम्बूकः । यदि कथमप्यनयोः सङ्घट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि ।
क्षणान्तरे च तथैव रक्तास्वादन-लौल्यान्मध्ये प्रविशंस्तयोः शिरः-सम्पाते पतिओत्मृतश्च शृगालः । देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्कन्थामालोकयति तावन्मात्रां न पश्यति । ततश्च-हा हा मुषितोऽस्मि इति जल्पन्पृथिवी-तले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धः-भो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ? तद्देहि मे प्रतिवचनम् ।
एवं बहु विलप्य तस्य पद-पद्धतिमन्वेषयन्शनैः शनैः प्रस्थितः । अथैव गच्छन्सायन्तन-समये कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभार्ह्यो मद्य-पान-कृते समीप-वर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमप्यत्र ग्रामे जानीमः । तद्गृह्यतामतिथि-धर्मः । उक्तं च—
सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृह-मेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृह-मेधिनः ॥
तथा च—
तृणानि भूमिरुदकं वाक्-चतुर्थी च सूनृता । सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः । पाद-शौचेन पितरः अर्घाच्छम्भुस्तथातिथेः ॥
कौलिकोऽपि तच्छ्रुत्वा भार्यामाह-प्रिये, गच्छ त्वतिथिमादाय गृहं प्रति पाद-शौच-भोजन-शयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूत-मद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसित-वदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते—
दुर्दिवसे घन-तिमिरे दुःसञ्चारासु नगर-वीथीषु । पत्युर्विदेश-गमने परम-सुखं जघन-चपलायाः ॥
तथा च—
पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्य-रत-लुब्धाः ॥
तथा च—
केलिं प्रदहति लज्जा शृङ्गारोऽस्थीनि चाटवः कटवः । वन्ध-त्रयाः परितोषो न किंचिदिष्टं भवेत्पत्यौ ॥
कुल-पतनं जन-गर्हां बन्धनमपि जीवितव्य-सन्देहम् । अङ्गीकरोति कुलटा सततं पर-पुरुष-संसक्ता ॥
अथ कौलिक-भार्या गृहं गत्वा देव-शर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदमाह-भो भगवन् ! यावदहं स्व-सखीं ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत्त्वया मद्-गृहेऽप्रमत्तेन भाव्यम् ।
एवमभिधाय शृङ्गार-विधिं विधाय यावद्-देवदत्तमुद्दिश्य व्रजति तावत्तद्-भर्ता संमुखो मद-विह्वलाङ्गो मुक्त-केशः पदे पदे प्रस्खलन्गृहीत-मद्य-भाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्व-गृहं प्रविश्य नुक्त-शृङ्गार-वेशा यथा-पूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुत-शृङ्गारां विलोक्य प्रागेव कर्ण-परम्परया तस्याः श्रुतावपवाद-क्षुभित-हृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितमवलोक्य दृष्ट-प्रत्ययः क्रोध-वशगो गृहं प्रविश्य तामुवाच-आः पापे पुंश्चलि ! क्व प्रस्थितासि ?
सा प्रोवाच-अहं त्वत्-सकाशादागता न कुत्रचिदपि निर्गता । तत्कथं मद्य-पान-वशादप्रस्तुतं वदसि ?अथवा साध्विदमुच्यते—
वैकल्यं धरणी-पातमयथोचित-जल्पनम् । संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥
कर-स्पन्दोऽम्बर-त्यागस्तेजो-हानिः सरागता । वारुणी-सङ्गजावस्था भानुनाप्यनुभूयते ॥
सोऽपि तच्छ्रुत्वा प्रतिकूल-वचनं वेश-विपर्ययं चावलोक्य तमाह-पुंश्चलि ! चिर-कालं श्रुतो मया तवापवादः । तदद्य स्वयं सञ्जात-प्रत्ययस्तव यथोचितं निग्रहं करोमि । इत्यभिधाय लगुड-प्रहारैस्तां जर्जरित-देहां विधाय स्थूणया सह दृढ-बन्धनेन बद्ध्वा सोऽपि मद-विह्वलो विज्ञाय तां गत्वेदमाह-सखि ! स देवदत्तस्तस्मिन्स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति ।
सा चाह-पश्य ममावस्थाम् । तत्कथं गच्छामि ? तद्गत्वा ब्रूहि तं कामिनं यदस्यां रात्रौ न त्वया सह समागमः ।