तथा च—
शक्ति-वैकल्य-नम्रस्य निःसारत्वाल्लघीयसः । जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥
अपि च—
अन्य-प्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥
तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद्भेतव्यम् । अपि च—
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥
पिङ्गलक आह— कथमेतत् ।
सोऽब्रवीत्—
कथा २ शृगाल-दुन्दुभि-कथा
कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षाम-कण्ठः इतस्ततः परिभ्रमन्वने सैन्य-द्वय-संग्राम-भूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद्वल्ली-शाखाग्रैर्हन्यमानस्य शब्दमशृणोत् । अथ क्षुभित-हृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन्नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव ।
भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥
तत्तावज्जानामि कस्यायं शब्दः । धैर्यमालम्ब्य विमर्शयन्यावन्मन्दं मन्दं गच्छति तावद्दुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयत्-अहो चिरादेतदस्माकं महोद्भोजनमापतितम् । तन्नूनं मांस-मेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुष-चर्मावगुण्ठितं तत्कथमपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः । परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तद्-दारु-शेषमवलोक्य श्लोकमेनमपठत्पूर्वमेव मया ज्ञातमिति । अतो न शब्द-मात्राद्भेतव्यम् ।
पिङ्गलक आह— भोः पश्यायं मम सर्वोऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुमिच्छति । तत्कथमहं धैर्यादवष्टम्भं करोमि ।
सोऽब्रवीत्- स्वामिन्नैषामेष दोषः । यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च—
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुष-विशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥
तत्-पौरुषावष्टं कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेतच्छब्द-स्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद्यथोचितं कार्यमिति ।
पिङ्गलक आह— किं तत्र भवान्गन्तुमुत्सहते ।
स आह— किं स्वाम्य्-आदेशात्सद्-भृत्य कृत्याकृत्यमस्ति । उक्तं च—
स्वाम्य्-आदेशात्सुभृत्यस्य न भोः सञ्जायते क्वचित् । प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥
तथा च—
स्वाम्य्-आदिष्टस्तु यो भृत्यः समं विषममेव च । मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥
पिङ्गलक आह— भद्रं, यद्येवं तद्गच्छ । शिवास्ते पन्थानः सन्तु इति ।
दमनकोऽपि तम्प्रणम्य संजीवक-शब्दानुषरी प्रतस्थे ।
अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश्चिन्तयामास-अहो न शोभनं कृतं मया । यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तं च—
ये भवन्ति महीपस्य सम्मानित-विमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥
तत्तावदस्य चिकीर्षितं वेत्तुमन्यत्स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तं च—
न बध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥
बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥
शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः । राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥
न विश्वासं विना शत्रुर्देवानामपि सिद्ध्यति । विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥