Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 6 of 36 (Verses 30 shown)
PT 1.151 अनुष्टुप्
सीमा संकोचमायाति वह्नौ चर्म इवाहितम् । स्थिते यस्मिन्स तु त्याज्यो भृत्यो राज्यं समीहता ॥
तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यद्यवज्ञा क्रियते तदप्ययुक्तम् । उक्तं च यतः—
PT 1.153 शार्दूलविक्रीडितम्
कौशेयं कृमिजं सुवर्णमुपलाद्दुर्वापि गोरोमतः पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गो-पित्ततो रोचना प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥
PT 1.154 अनुष्टुप्
मूषिका गृह-जातापि हन्तव्या स्वाप-कारिणी । भक्ष्य-प्रदानैर्जारो हितकृत्प्राप्यते जनैः ॥
PT 1.155 अनुष्टुप्
एरण्ड-भिण्डार्क-नलैः प्रभूतैरपि सञ्चितैः । दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥
PT 1.156 अनुष्टुप्
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा । भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥
पिङ्गलक आह— भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तनस्त्वमस्माकं मन्त्रि-पुत्रः । तद्विश्रब्धं ब्रूहि यत्किञ्चिद्वक्तुकामः ।
दमनक आह— देव जिज्ञाप्यं किञ्चिदस्ति ।
पिङ्गलक आह— तन्निवेदयाभिप्रेतम् ।
PT 1.161 अनुष्टुप्
अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवी-पतेः । तन्न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः ॥
तदैकान्तिके मद्-विज्ञाप्यमाकर्णयन्तु देव-पादाः । यतः—
PT 1.163 अनुष्टुप्
षट्-कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात्सर्व-प्रयत्नेन षट्कर्णं वर्जयेत्सुधीः ॥
अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेऽपि तद्-वचः समाकर्ण्य संसदि तत्-क्षणादेव दूरीभूताः । ततश्च दमनक आह—उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् ।
पिङ्गलक आह सविलक्ष-स्मितम्- न किञ्चिदपि ।
सोऽब्रवीत्- देव यद्यनाख्येयं तत्तिष्ठतु । उक्तं च—
PT 1.167 उपजातिः
दरिषु किञ्चित्स्वजनेषु किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥
तच्छ्रुत्वा पिङ्गलकश्चिन्तयामास- योग्योऽयं दृश्यते । तत्कथयाम्येतस्याग्रे आत्मनोऽभिप्रायम् । उक्तं च—
PT 1.169 उद्गीति (१२, १५, १२, १८)
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये । सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ॥
भो दमनक शृणोषि शब्दं दूरान्महान्तम् ।
सोऽब्रवीत्- स्वामिन्शृणोमि । तत्किम् ।
पिङ्गलक आह— भद्र अहमस्माद्वनाद्गन्तुमिच्छामि । दमनक आह— कस्मात् ।
पिङ्गलक आह - यतोऽद्यस्मद्-वने किमप्यपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यमिति ।
दमनक आह— यच्-छब्द-मात्रादपि भयमुपगतः स्वामी तदप्ययुक्तम् । उक्तं च—
PT 1.175 अनुष्टुप्
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥
तन्न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरी-वेणु-वीना-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन शब्दा अनेक-विधा भवन्ति । तन्न केवलाच्छब्द-मात्रादपि भेतव्यम् । उक्तं च—
PT 1.177 अनुष्टुप्
अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्यं यस्य महीनाथो न स याति पराभवम् ॥
PT 1.178 आर्या (१२, १८, १२, १५)
दर्शित-भयेऽपि धातरि धैर्य-ध्वंसो भवेन्न धीराणाम् । शोषित-सरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥
PT 1.180 आर्या (१२, १८, १२, १५)
यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →