शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥ ९७॥
(महाभारत ५.३५.६४)
अत्र न सुवर्णशब्दार्थो, नापि पुष्पशब्दार्थः; किन्तु सुवर्णशब्देन सर्वपुरुषार्थमूलं हिरण्यं, पुष्पशब्देन च प्रसवार्थो लक्ष्यते। ताभ्यां च लाक्षिताभ्यां व्यवसायिनां पुरुषविशेषाणां वसुमती सर्वान् कामान् प्रसूत इति।
६. उक्ताभ्योऽन्या प्रकीर्णलक्षणा। यथा— (रघु. ८.२९)
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम्।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः॥ ९८॥
हिरण्यपूर्वं कशिपुं प्रचक्षते।
(माघ. १. ४२) तुरङ्गकान्तामुखहव्यवाहज्वालेव हित्वा जलमुल्ललास॥ ९९॥
(माघ. ३.३३) इति।
अन्ये पुनर्लक्षितलक्षणामन्यथा व्याचक्षते— लक्षणयोपचरितवृत्त्या गौण्या अर्थेन यत्रार्थान्तरं लक्ष्यते सा लक्षितलक्षणेति। यथा— रथावयवायुधः, पङ्क्तिरथः (रघु. ९.७४), रथाङ्गनामेति (रघु. ३.२४); अत्र रथावयवशब्देन चक्रं लक्ष्यते, तेन तदाकृतिः तन्नामा आयुधविशेषः; पङ्क्तिरित्यनेन दशाक्षरं छन्दो लक्ष्यते, तेन दशशब्दः, ताभ्यां चायुधसन्निधेश्चक्रायुधः, दशरथः इति देवविशेषराजविशेषौ लक्ष्येते। रथाङ्गमित्यनेन रथैकदेशो लक्ष्यते, तेन चक्रशब्दः, नामेत्यनेन परिभाषणं लक्ष्यार्थः; ताभ्यामन्योन्यसन्निधेश्चक्रवाक इति पक्षिविशेषो लक्ष्यत इति। अस्याश्च प्रबन्धेषु भूयसा प्रयोगः। तद्यथा— (गास. ६१)
सूईवेहे मुसलं विच्छुहमाणेण दड्ढलोएण।
एक्कग्गामे वि पिओ इमेहिं/समेहि अच्छीहि वि ण दिट्ठो॥ १००॥
(सुचीवेधे मुसलं विक्षिपता दग्धलोकेन।
एकग्रामेऽपि प्रिय आभ्याम्/समाभ्याम् अभ्यामपि न दृष्टः॥)
अत्र सूचीवेधे मुसलप्रवेशो न सम्भवति, जनस्तु तमपि करोतीत्यनेन मुख्यया लक्षितेन तस्यासम्भाव्यमानार्थवादिता लक्ष्यते। यथा—
चुंबिज्जइ सअहुत्तं अपवाहिज्जइ सहस्ससअहुंत्तं।
रमिअ पुणो वि रमिज्जइ पिए जणे णत्थि पुणरुत्तं॥ १०१॥१
(चुम्ब्यते शतकृत्वः अवरुध्यते सहस्रशतकृत्वः।
रन्त्वा पुनरपि रम्यते प्रिये जने नास्ति पुनरुक्तम्॥)
अत्र पुनरुक्तशब्दो व्यर्थवाक् पुनःप्रयोगविशेषे निरूढशक्तिः, क्रिया पुनःकरण— सामान्यं लक्षयति विपक्षि(?) चुम्बनादि x x x करणविशेषवैयर्थ्याय लक्षयति। एवम्—
दूइ तुमं विअ णिउणा कक्कसमहुआइ जाणसे वोल्लुं।
कंडुइअपंडरं जह ण होइ तह तं कुणिज्जासु॥ १०२॥
(गास. २८१)
(दूति त्वमेव निपुणा कर्कशमृदुकानि जानासि वक्तुम्।
कण्डूयितपाण्डुरं यथा न भवित यथा तं करिष्यसि॥)
अत्र कण्डूयितपाण्डरमित्यनेन पारुष्यं लक्ष्यते; तेन तु स्नेहक्षतिरिति। अपि च—
गअणं च मत्तमेहं धाराळुळिअज्जुणाइ अ वणाइ।
णिरहंकारमिअंका हरति नीलाओ विअ णिसाओ॥ १०३॥
(गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः॥)