सन्नद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति॥ ७५॥
चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः।
असमग्रो ह्ययं शश्वदयमापूर्णमण्डलः॥ ७६॥
(काव्याद.२.८९–९०)
अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके।
मुखेन्दौ तव सत्यस्मिन्नितरेण किमिन्दुना॥ ७७॥
(काव्याद. २.१५९)
न मीलयति पद्मानि न नभो व्यवगाहते।
त्वन्मुखेन्दुर्ममासूनां हरणायैव यस्यति॥ ७८॥
(काव्याद. २.८३)
भिन्नानामभेदोपचारो यथोत्तरोदाहरणयोः तत्र हि प्रतीयमानाभिधीयमानतुल्य— गुणोपमानविशेषणमनेकं सर्वनाम उपमानव्यधानेनोपमेये प्रयुक्तमभेदोपचारेणो— त्कर्षमारोपयति।
नन्वियमन्योक्तिः समासोक्तिरूभयोक्तिर्वा कस्मान्न भवति ?
तथा हि— प्रतीयमानाभिधीयमानोपमेयगुणविभूतयः सर्वनामाध्यासेऽप्यन्योक्ति— समासोक्तयुभयोक्तयो दृश्यन्ते। तत्र —
अन्योक्तिर्यथा—
हा सौरभं क्व तत् ते क्व नु ते सन्तापहारि हा शैत्यम्।
अङ्गारकारहस्ते चन्दन ! पतितोऽसि धिग् दैवम्॥ ७९॥
समासोक्तिर्तथा—
मुग्धामजातरजसं कलिकामकाले बालां कदर्थयसि किं नवमालिकायाः।
अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु॥ ८०॥
उभयोक्तिर्यथा—
केनासीनः सुखमकरूणेनाकरादुद्धतस्त्वं विक्रेतुं वा त्वमभिलषितः केन देशान्तरेऽस्मिन्।
यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे ! त्वत्परीक्षाक्षमोऽपि॥ ८१॥
उच्यते— यत्रोपमानमेव प्रयुक्तं प्रतीयमानाभिधीयमानगुणमुपमेयं गमयति, तत्रैवान्योक्तयादयो भवन्ति। इह तु नोपमानं प्रयुज्यते। किं तर्हि ? तद्विशेषणं सर्वनाम; तेन प्रथमोदाहरणे नान्योक्तिः, द्वितीयोदाहरणे तु न समासोक्तिरिति।
यद्येवमध्यासात्मिका तद्भावापत्तिः कस्मान्न भवति ? यथैष बालाबाहुमूले बालचन्द्रमाः; यथा वा— (माघ. १५.६३)
किमहो नृपाः समममीभिरूपपतिसुतैर्न पञ्चभिः।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया॥ ८२॥
इति
उच्यते नात्र सर्वनाम्नामेव प्रयोगः। किं तर्हि ? विशेष्याणामपीति युज्यते तद्भावापत्तिः। 'चन्द्रज्योत्स्ना' इत्यादौ तु सर्वनामाध्यासे समाधिलक्षणयोगा— दुपचारगौण्येवैषा भवित। यथा च धर्मिणोऽप्यध्यासे समाधिरूपपद्यते तथाग्रतो वक्ष्याम इति।
(३. लक्षणा)
लक्षणा द्विविधा— १. लक्षणा, २. लक्षितलक्षणा च।