Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 07

Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

प्रकाशः 7 • केवलशब्दसम्बन्धशक्तिप्रकाशः

Prakāśa 7 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1087 Verses • Citations: SP 7.1–1087 • 4 Lexicon Terms • Page 4 of 37 (Verses 30 shown)
४. वस्तुनोऽवस्थान्तरोपगमनं विपरिणामः। यथा—
य एते यज्वानः प्रथितमहसो येऽप्यवनिपाः मृगाक्ष्यो याश्‍चैताः कृतमपरसंसारिकथया।
अहो ये चाप्यन्ये फलकुसुमनम्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भवगती॥ २१॥
च्युतामिन्दोर्लेखां रतिकलहभग्‍नं च वलयं समं चक्रीकृत्य प्रहसितमुखी शैलतनया।
अवोचद् यं पश्‍येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः॥ २२॥
५. मिथ्याज्ञानं वपिर्ययः। यथा— (विक्रमो. ४.१७)
हृतोष्ठरागैर्नयनोदबिन्दुभिः निमग्‍ननाभेर्निपतद्भिरङ्कितम्।
च्युत रुषा भिन्नगतेरसंशयं शुकोदरश्‍याममिदं स्तनांशुकम्॥ २३॥
मा भैः शशाङ्क मम शीथुनि नास्ति राहुः खे रोहिणी वसति कातर ! किं बिभेषि।
प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्॥ २४॥
६. अवस्तुष्वपि वस्तुवन्मिथ्याप्रसिद्धिः प्रवादः। यथा—
गन्धर्वपुरसुरायुधकुरङ्गतृष्णान्धकारूपाणि।
असतामसत्यदुर्ग्रहदुरापमलिनानि वृत्तानि॥ २५॥
रत्‍नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुः खण्डमाखण्डलस्य।
येन श्‍यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥ २६॥
गौणी द्विधा— १. गुणनिमित्ता, २. उपचारानिमित्ता च।
तत्र यस्यां द्वयोर्वचनयोस्सामानाधिकरण्येन वैयधिकरण्येन वा प्रयोगः, विशेषण— विशेष्यभावान्यथानुपपत्त्यैकस्य प्रतीयमानाभिधीयमानगुणद्वारकसम्बन्धो भवति, सा गुणव्यवहितार्था गुणनिमित्ता च। तत्र च—
संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते।
गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम्॥ २७॥
गुणः स्वार्थो विशेषणं प्रवृत्तिनिमित्तमिति चैकोऽर्थः। स धर्मगुणक्रियाऽऽकृति— जातिस्वरूपादिभेदादनन्तः। तत्सम्बन्धेन यद्यपि तन्निमिता वृत्तिरनन्तप्रकारैव कल्प्यते तथापि तस्याः षडेव विकल्पा भवन्ति — 'मुख्यविषयः, अमुख्यविषयः, भेदविषयः, अभेदविषयः, विशेषणविषयः, अविशेषविषय' इति।
(१) यत्र द्वयोरपि मुख्यविशेष्यार्थयोर्धर्मादिनिमित्तमेकस्येतरविशेषणत्वं भवति स मुख्यविषयः।
स धर्मनिमित्तः समासे यथा—
यो हि दीर्घासिताक्षस्य विलासवलितभ्रुवः।
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →