Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 07

Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

प्रकाशः 7 • केवलशब्दसम्बन्धशक्तिप्रकाशः

Prakāśa 7 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1087 Verses • Citations: SP 7.1–1087 • 4 Lexicon Terms • Page 29 of 37 (Verses 30 shown)
सौभाग्यमिव तात्पर्यमान्तरो गुण इष्यते।
वाग्देवताया लावण्यमिव बाह्यस्तयोर्ध्वनिः॥ १९१॥
अदूरविप्रकर्षात्तु द्वयेन द्वयमुच्यते।
यथा सुरभिवैशाखौ मधुमाधवसंज्ञया॥ १९२॥
सत्यमुक्तम। किन्तु नाद्यापि निदर्शनतः प्रतिपाद्यते।
तर्हि श्रूयतामिदं प्रतिपादयामः—
यस्तावदयमनन्तरो ग्रन्थः स सर्वः काव्ये ध्वनिरित्यवधार्यताम्। वचसि तात्पर्यं द्विधा शास्त्रे लोके च। तत्र शास्त्रे यथा—'आत्मस्थितं गुणविशेषमहङ्कृतस्य' इत्यादि। अत्र 'आत्मस्थितं गुणविशेषमहङ्कृतस्य शृङ्गारमाहुरिह जीवितमात्मयोनेः' इत्याप्‍तोपदेशरूप आगमः; 'तस्यात्मशक्तिरसनीयतया रसत्वम्' इति संज्ञार्थानुगामि प्रत्यात्मवेदनीयं प्रत्यक्षम्। 'युक्तस्य येन रसिकोऽयमिति प्रवादः' इत्यर्थापत्तिरूपम् अनुमानम्; तथा हि योऽयं लोके रसोऽस्यास्तीति रसिकोऽयं रसिकोऽयमिति विना१ मधुरादीन् केषुचिदेव पुरुषविशेषेषु निरपवादः प्रवादः स नान्तरेण प्रत्यात्मवेदनीयं रसाह्वयवस्तुसम्बन्धमुपपद्यते। सोऽयं विवक्षितार्थस्य प्रमाणत्रयेण प्रतिपादनं वाक्यार्थोऽभिधीयमानः।
प्रतिपाद्यश्च त्रिप्रकारः पुरुषो भवति अप्रतिपन्नो, विप्रतिपन्नः संशयित इति। तत्र यथातुरानातुरयोर्भोजनमनातुरः प्रतिपद्यत इति तथैव प्रकल्प्यते, तथेहाप्रतिपन्ना— नुरोधादितयोरप्यागम एव प्रथममुपन्यस्यते। अत्र विप्रतिपन्नः संशयितो वागमं न मन्यते। अतस्तदर्थं सर्वप्रमाणेभ्यो वलीयः प्रत्यक्षमुपन्यसनीयं भवति। तदपि वैयात्याद् विप्रतिपन्नो न मन्यते। ततोऽस्य शासनाय ब्रह्मास्त्ररूपा सार्वलौकिकी युक्तिरुपन्यस्यत इति। स एव प्रमाणत्रयोपन्यासहेतुर्वक्तुरभिप्रायः प्रतीयमानः प्रमाणत्रयोपन्यासादिना च साङ्ख्यदर्शनाश्रयेण शृङ्गारस्सन्नेवाविर्भवति, न त्वसन्नुत्पद्यते; स च त्रिविधप्रमाणाश्रयः १. माधुरा॰ इति तु मूलं स्यात्। माधुरा माथुराः — रे. श्रेयानिति प्रतिपादनतात्पर्यम्। साङ्ख्या ह्येवमाहुः, 'सदेवोत्पद्यते, प्रकृतिरेव कर्त्री, पुरुषः पुनरुदास्ते, उदासीनमपि चैनं भोगसम्पादनाय प्रकृतिरुपसर्पति' इति।
ननु च साङ्ख्यानां 'दृष्टमनुमानमाप्‍तवचनं च' इति प्रमाणोपन्यासक्रमः। इह त्वागमस्य प्रथममुपन्यासे किं तात्पर्यम् ?
ननूक्तमप्रतिपन्नानुरोधादिति।
अन्यदप्युच्यते; 'न तथा पदार्थाः प्रत्यक्षेण प्रतीयमानाः स्वदन्ते यथा वाग्ग्मिनां वचोभिरावेद्यमाना' इत्यागमस्य प्रथममुपन्यासेन सूचयति।
न च सर्वथा साङ्ख्यदर्शनाश्रयिणो वयमिति प्रमाणव्युत्क्रमेण प्रतिपादयति, साहित्यस्य सर्वपार्षदत्वात्।
अथात्मनि प्रतिबिम्बद्वारेणावस्थितस्याहङ्कारगुणविशेषस्य धर्मार्थफलभूत— तृतीयपुरुषार्थजीवितस्य १ शृङ्गारस्याभिमानापरनाम्‍नो यान्याविर्भावकारणानि यानि च तत्कार्याणि तान्यनन्तरश्लोकेन निर्दिशति— 'सत्त्वात्मनाममलजन्म/ २धर्मविशेषजन्मा' इत्यादि। तत्रायमात्मनामनुपहतेभ्यः सुकृतविशेषेभ्य उत्पद्यते। उत्पन्नस्य३ सर्वस्यात्मा आत्मगुणसम्पदो ४वक्ष्यमाणलक्षणाया उदयहेतुर्भवति। अनेकजन्मानुभवजनितात्तु संस्कारादुत्कृष्यते। उत्कृष्टश्चात्मगुणसम्पद एव अतिशयहेतुर्भवति। स चायमेक एवैवंविधोऽभिमानात्मा प्रकृतिविकार आत्मविशेषाणां तमोनिर्भेदस्थानेषु प्रतिबिम्बरूपेण सुप्‍त इव प्रतिबुध्यत इति वाक्यार्थोऽभिधीयमानः। एकहेतुरित्यनेन च हेत्वन्तराभावमात्मगुणसम्पदः प्रदर्शयन् अयमेव चतुर्वर्गकारणमिति ज्ञापयति। 'जागर्ति' इति; जागर्तिश्च सुप्‍तप्रबोधदृष्टान्तेन तस्यानाविर्भावावस्थायामपि स्तिमितरूपेणावस्थानादविद्यमानतां निराकरोति। 'कोऽपि' इत्यनेनादभुतप्रदर्शनद्वारेण तदुत्कर्षसम्पत् जन्मसहस्त्रेणाप्यनाख्येया इति ख्यापयति। 'मानमय' इत्यनेन चास्याभिमानात्मनोऽभिमान एव मूलमित्यन्यावष्टम्भं निराचष्ट इति। सोऽयमेवंप्रकारो वाक्यार्थः प्रतीयमानः, एवंविधं वस्तु वयं च वक्तुमुद्यताः, अतश्चतुर्वर्गार्थिनोऽत्र प्रवर्तन्तामिति श्रोतृजनप्रोत्साहनादस्मिन्वचसि तात्पर्यमिति।
१. तृतीयः पुरुषार्थः कामः। तथा च कालिदासः 'धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक्' रघु. १०.८४। २. '॰ममलधर्मवि॰' इति तु प्राक्‍तनः पाठः। तथा हि मङ्गले पृ॰ ३। जन्मेत्येव पाठे तु रघुवंशाद्यभिमता जन्मशुद्धिः स्मरणीया 'सोऽहमाजन्मे'—ति १.५। ३. उत्पन्नश्‍चेति तु स्यात्। ४. एकादशे प्रकाशे।
एवं लौकिकेऽपि वचस्यभिधीयमानं प्रतीयमानं तात्पर्यं च पर्यालोचनीयमिति। एतेन काव्यवचसोर्ध्वनितात्पर्ययोश्च क्‍वचित् सम्प्लवोऽपि व्याख्यातः। तद्यथा—'अच्छिन्नमेखलमलब्धदृढोपगूढम्' इत्यादि। अत्र—
१. काव्यार्थस्तावत् कान्ताविमिश्रवपुषः पुरारेर्वपुरच्छिन्नमेखलमित्यादिविशेषणयोगाद् विप्रलम्भसम्भोगयोः सख्यसम्पादकमिवेत्युत्प्रेक्ष्यमाणं रक्षत्विति वाक्यार्थो अभिधीयमानः।
'कान्ताविमिश्रवपुषः'—वपुरित्यनेन मूर्तिरेवास्य सांसारिकेषु कर्मस्वधिक्रियते, न पुनरात्मेति प्रत्याययति। मूर्तिरिति च वक्तव्ये वपुरिति पदोपादानान्न केवलं विश्वस्य रक्षणे, सृष्टिसंहारयोरप्ययमेव व्याप्रियत इति प्रतिपादयति। वपिर्हि सृष्टौ संहारे च दृश्‍यते, बीजं वपति, केशान् वपतीति।
'कृतविप्रलम्भसम्भोगसख्यमिव' इत्यनेन सहानवस्थानादिभिर्दुर्घटानप्ययं पदार्थान्मिथो घटयतीति ज्ञापयतीति।
'पुरारेः' इत्यनेन च कान्ताविमिश्रवपुरप्येवंविधेष्वरिवधादिव्यापारेषु समर्थ एवेति सत्यापयति। सोऽयमेवंप्रकारो वाक्यार्थः प्रतीयमानः। तदेवप्रकारमपारमनन्य— साधारणं च यस्यैश्वर्यमसावेव नमस्कार्यो नान्य इति तात्पर्यार्थः।
एवमुत्तरश्लोकेऽपि यथाश्रुतवाक्यार्थोऽभिधीयमानः 'यत्पादपङ्कजरजः— परिमार्जितेषु' इति प्रयोजकव्यापारो(प)दर्शनाद् ध्यानेनानीय गणपतिर्मनस्यारोपणीय इत्युपदिशति।
'चेतस्सु दर्पणतलामलतां गतेषु' इत्यनेन चादर्शतलानीव भस्मना स्मृत्युपहितेनापि तत्पादरजसा मनांसि निर्मलीभवन्तीत्यभिधत्ते।
'शब्दार्थसम्पद उदारतराः स्फुरन्ति' इत्यनेन तु दर्पणतलेष्विव निर्मलेष्वमीषु विश्वे पदार्थाः स्फुरन्तीत्यावेदयति।
'विघ्‍नच्छिदेऽस्तु भगवान् स गणाधिनाथ' इत्यनेन पुनरुपन्यस्तन्या— येनाभिगामिकं गुणयोगमस्योपदर्शयन् अविघ्‍नप्रार्थनया चिकीर्षितं महान्तमारम्भ— विशेषमात्मनः प्रतिपादयति। सोऽयमेवंविधो वाक्यार्थः प्रतीयमानः। यस्य च पादपङ्कजस्मृतेरप्येतत्फलं तस्य साक्षादाराधनादेः किमुच्यत इति तात्पर्यार्थः॥
२. अथेदमेव श्लोकद्वयं शास्त्रादौ वचोरूपेण तात्पर्यपर्यन्तं व्याक्रियते। तत्राभीष्टदेवता स्तोतव्येति शिष्टाचारः। ततो हि विशिष्टदुष्टसम्पत्तेः समीहितफलावाप्‍तिर्भवति। अभीष्टदेवता च द्विविधा— 'अधिकृताऽनधिकृता' च। तत्राधिकृतानधिकृतयोरधिकृतायां प्रतिपत्तिर्गरीयसीत्यधिकृतैव स्तूयते। शास्त्रे चेह शृङ्गारोऽभिधेयः, तत्र च यथा भगवान् महेश्वरः सर्वज्ञतया सौभाग्येन दयितजानितया स्वातन्त्र्येण परमपरिपूर्णतया समर्थत्वेन चाधिक्रियते नैवमन्यस्तद्‍‌विधेयवैभवः शक्रादिः। तत्र च प्रागुक्त एव प्रतीयमानः; तात्पर्यरूपस्तु निरूप्यते। तत्र—
इह शास्त्रे शृङ्गारे वक्तव्यः। स द्विधा— सम्भोगो विप्रलम्भश्च। तत्र सम्भोगो विप्रलम्भमन्तरेण न प्रकर्षमधिरोहतीति विप्रलम्भ एव प्रथममभिधेयो भवति।
स चतुर्धा— 'प्रथमानुरागः, मानः, प्रवासः, करुण' इति। विचित्रश्चैष सम्भोगादिति विस्तरेणोच्यते।
चतस्त्रश्चास्यावस्था भवन्ति— 'सत्ता, जन्म, अनुबन्धः, प्रकर्ष' इति।
तमिमं चतुर्भेदं चतुरवस्थं विचित्रं च पूर्वार्धेन वक्ष्यमाणमुपलक्षयति।
तत्राच्छिन्नमेखलमित्यनेन प्रथमनुरागं, मेखलाच्छेदावधिर्हि प्रथमानुरागः;
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →