Skip to main content
Search
Ch. 7 SP 7.849
Full Chapter
SP • Chapter 7: Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

SP 7.849

Canonical Ref: SP 7.849
Sanskrit (Devanāgarī)
प्रतिपाद्यश्च त्रिप्रकारः पुरुषो भवति अप्रतिपन्नो, विप्रतिपन्नः संशयित इति। तत्र यथातुरानातुरयोर्भोजनमनातुरः प्रतिपद्यत इति तथैव प्रकल्प्यते, तथेहाप्रतिपन्ना— नुरोधादितयोरप्यागम एव प्रथममुपन्यस्यते। अत्र विप्रतिपन्नः संशयितो वागमं न मन्यते। अतस्तदर्थं सर्वप्रमाणेभ्यो वलीयः प्रत्यक्षमुपन्यसनीयं भवति। तदपि वैयात्याद् विप्रतिपन्नो न मन्यते। ततोऽस्य शासनाय ब्रह्मास्त्ररूपा सार्वलौकिकी युक्तिरुपन्यस्यत इति। स एव प्रमाणत्रयोपन्यासहेतुर्वक्तुरभिप्रायः प्रतीयमानः प्रमाणत्रयोपन्यासादिना च साङ्ख्यदर्शनाश्रयेण शृङ्गारस्सन्नेवाविर्भवति, न त्वसन्नुत्पद्यते; स च त्रिविधप्रमाणाश्रयः १. माधुरा॰ इति तु मूलं स्यात्। माधुरा माथुराः — रे. श्रेयानिति प्रतिपादनतात्पर्यम्। साङ्ख्या ह्येवमाहुः, 'सदेवोत्पद्यते, प्रकृतिरेव कर्त्री, पुरुषः पुनरुदास्ते, उदासीनमपि चैनं भोगसम्पादनाय प्रकृतिरुपसर्पति' इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 7.849. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 7.848) All Verses in Chapter 7 Next Verse (SP 7.850) →