Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 07

Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

प्रकाशः 7 • केवलशब्दसम्बन्धशक्तिप्रकाशः

Prakāśa 7 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1087 Verses • Citations: SP 7.1–1087 • 4 Lexicon Terms • Page 31 of 37 (Verses 30 shown)
कीदृशस्य ? कान्ताविमिश्रवपुषः।
किंविशिष्टम् ? अच्छिन्नमेखलम्, अलब्धदृढोपगूढम्, अप्राप्‍तचुम्बनम्, अवीक्षितवक्त्रकान्ति।
कथम् ? उत्प्रेक्ष्यमाणम् ? कृतविप्रलम्भसम्भोगसख्यमिवेति।
अत्र चायमच्छिन्नशब्दः, बहुव्रिहिश्च समासः अध्याह्रियमाणपदद्वया द्वादशपदा नान्दी (नाशा. ५.१०४) सदाऽविश्लेषः, विशेषोक्तिगर्भ उत्प्रेक्षावाँश्चाशीरलङ्कारो मङ्गलार्थः। तेऽमी चत्वारोऽपि मङ्गलार्थाः शस्त्रादौ प्रयुक्ताः कर्तुः श्रोतुरध्येतुर— ध्यापयितुश्च मङ्गलमावहन्ति। यदाह —'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राण्यव्याहतप्रसराणि आयुष्मच्छ्रोतृकाणि च भवन्ति (मभा. १.१.१,१.३.१)।
६. ननु च नेह विश्वमपायेभ्य इति कर्मापादानपदयोः श्रवणमस्ति, तत्कथमिवेयं द्वादशपदा नान्दीति ?
उच्यते, पात्विति श्रुतिपदमेतत्; श्रुतेश्चानेकपदनिबन्धन एकशब्दविषयो विध्यादिरर्थः; स चान्यथानुपपद्यमानः स्वसिद्धये कर्मकरणकर्त्रधिकरणादिकं यदाक्षिपति स सर्वः श्रुतिपदार्थो भवति। तत्रोपादीयमानमपि कर्तृकर्मादिकं नियमाय, अनुपादाय वा विज्ञायते। तद्यथा — सामान्याक्षेपे विशेषपदमुपादीयमानं नियमाय भवति, 'पातु वः परमं ज्योतिः' इति। विशेषाक्षेपे तत्र तदनुपादाय विज्ञायते देवो जलं वर्षतीति। (इह तु) यथा 'अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयेत्' इति वचनात् 'स्वाध्यायोऽध्येतव्य' इत्यत्र द्विजेनाचार्यादित्यनुपात्तमप्यवश्‍यमेव सन्निधीयते, तथेहाप्यपायनिर्हरणरूप— त्वात् पात्वर्थस्य स्थितेरीश्वरकर्तृकस्य सृष्टिसंहारयोरिव विश्वविषयत्वादपायेभ्यो विश्वमिति पदद्वयमनुपादीयमानमपि नियमेन सन्निधीयते।
७. ननु चाशरीरिणो महेश्वरस्य विश्वोत्पत्तिस्थितिप्रलयकारणत्वाभ्युपगमेऽपि कथमिवोच्येत वपुः पात्विति।
अशरीरिणोऽपि वैश्वरूप्येण तदुपपत्तेः। स ह्येवं तत्त्वविद्भिः स्तूयते—
मूलजालमधिभोक्‍तृचेतना शक्तयस्त्वदधिभो(यो)क्‍तृसंहतिः।
ज्ञानमेतदधिनायकव्रजंस्त्वत्स्मृतौ युगपदेव भासते॥ १९८॥
अत एव कान्ताविमिश्रवपुष इति पुरारेर्विशेषणं तन्त्रेणान्यथा व्याचक्षते। तद्यथा— कं पानीयम् अन्तेऽस्या इति कान्ता पृथ्वी, कं सुखमन्तेष्वासामिति कान्ता आपः। को वायुरन्तेऽस्येति कान्तो वह्नि। कं तोयमन्ततीति कान्तो वायुः। कं ब्रह्म अन्तोऽस्येति कान्तमाकाशम्, कान्तिर्दीप्‍तिस्तदतिशयवान् कान्तः सूर्यः, कान्तिः कामनीयकं तदतिशयवान् कान्तश्चन्द्रमाः, कान्तिर्वाल्लभ्यं तदतिशयवान् कान्त आत्मेति कान्तशब्देनाष्टापि भगवतो मूर्तय उच्यन्ते। ता अवन्तीत्येवंशीला भवोग्रभीमादयो मूर्तिपतयः कान्ताविनः। मिश्रशब्दः पूजावचनः। तेनैषां 'प्रशंसावचनैश्च' (२.१.६६) इत्यार्यमिश्रादिवत् समासः। ततः कान्ताविमिश्रं वपुर्यस्येति बहुव्रीहौ वैश्वरूप्यसिद्धेर्विवक्षितार्थसिद्धिः।
अथात्राच्छिन्नमेखलमित्यादीनां कथमन्वयः ?
तान्यपि वपुषो विशेषणानि भवन्ति। तत्राच्छिन्नमेखलमित्यनेन परमुच्यते। मेखला हि जघनपरिक्षेपसूत्रम्, तदपरिच्छिन्नं यस्येति। अलब्धदृढोपगूढमित्यनेनागाधत्व— दुरवगाहत्वमाख्यायते; दृंहतीति दृढ आधारः, तस्योपगूढमुपश्लेषः प्रतिष्ठास्थानं, तदनुपलब्धं यस्येति। अप्राप्‍तचुम्बनमित्यनेनोच्‍चैष्ट्वस्य निरवधित्वं कथ्यते, चुम्बनं हि वक्त्रसंयोगः तदप्राप्‍तं यस्येति। अवीक्षितवक्त्रकान्तीत्यनेनाप्रतिलघोरस्य परिसूक्ष्मत्वमाभिधत्ते। 'वक्त्रा' कुतस्त्या कुतोमुखी वेत्यविज्ञायमाना कान्तिर्यस्येति, कृतविप्रलम्भसम्भोग— सख्यमिवेत्यनेन त्वविज्ञातपरमार्थत्वेन विप्रलभमानमिव पृथिव्यादिप्रसिद्धरूपतया सम्भुज्यमानं सम्भुञ्जानमिव च तदेवोच्यते। यदित्थमेनमाहुः— (कुसं. २.१५)
त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतम्।
वेद्यं वेदयिता चासि ध्याता ध्येयं च तत्परम्॥ १९९॥
विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः।
ननु मूर्तिभिरष्टाभिरित्थम्भूतोऽस्मि सूचितः॥ २००॥
तदमुना विशेषणपञ्चकेनैतदुक्तं भवति—(सेब. १.१)
णमह अवड्‍‌ढिअतुंगं अवसारिअवित्थअं अणोणअ—गहिरं।
अप्पलहुअ—परिसण्हं अणाअपरमत्थपाअडं महुमहणं॥ २०१॥
(नमत अवर्धिततुङ्गमप्रसारित—विस्तृतमनवनतगभीरम्।
अप्रलघुक—परिश्लक्ष्णमज्ञातपरमार्थप्रकटं मधुमथनम्॥)
८. ननु च पात्विति नायं विधौ लोट्, अपि त्वाशिषि। सा च विशेषस्याश्रुतौ स्वरूपादेवात्मविषयतयातिष्ठत इति कथं विश्वविषया भवति ?
अयं निजः परो वेति विकल्पा लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥ २०२॥
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →