अत्र बहवः पुत्रा एष्टव्या इति वाक्यार्थोऽभिधीयमानः पुत्रैः पितृप्रीतये प्रयागगमनादयः कर्तव्या इति प्रत्याययन् पितृणां कामपूरणं परमपुरुषार्थ इति ध्वनति। स च पितृव्यपदेशपरतया प्रवृत्तः पुत्रोद्देशरूपेण तत्प्रवृत्तिषु प्रतिशब्दायमानः पृथगिवोपलभ्यत इति प्रतिशब्दध्वनिः। एवम्— (गासा. ८८६ वे.)
कस्स व ण होइ रोसो दठ्ठूए पिआए सव्वणं अहरं।
सभमरकमलपउमग्घाइरि वारिअवामे सहसु एण्हिं॥ १८४॥
(कस्य वा न भवति रोषः दृष्ट्वा प्रियायाः सव्रणमधरम्।
सभ्रमरकमलपद्मघ्रायिणि वारितवामे ! सहस्वेदानीम्॥)
अत्र सख्युपालम्भार्थोऽभिधीयमानः पत्युरीर्ष्योपशान्तये भ्रमरेणास्या अधरः खण्डितो नोपपतिनेति प्रत्याययन् स्खलितगोपनेषु सखीवैदग्ध्यं ध्वनति। स चान्योपदेशपरत्वेन प्रवृत्तोऽन्यस्य चेतसि प्रतिफलति इति प्रतिशब्दध्वनिः। एवं 'भम धम्मिअ वीसद्धो' इत्यादिवाक्ये विधौ निषेधः प्रतीयमानः तस्या नदीकुञ्जके केनचित् सह सङ्केतार्थं ध्वनति। स वाक्यार्थात् पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। 'आसाइअं अण्णाएण जत्तिअम्' इत्यादिवाक्ये वृषनिवारणपरो निषेध उपपतिनिवारणं प्रत्याययन् प्रयोक्तुर्वैदग्ध्यं ध्वनति। स चान्याभिधानेनान्यमभिदधत् ततः पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। एवं 'गोलाणइए कच्छे चक्खन्तो राइआइ पत्ताइ' इत्यपि प्रतिशब्दध्वनिरिति।
(२. शब्दध्वनिः)
एवं शब्दध्वनिरपि द्विधैव। तत्र—
अनुनादरूपो यथा— (सूर्यश. २)
भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां लक्ष्मीनाक्रष्टुकामा इव कमलवनोद्घाटनं कुर्वते ये।
कालाकारन्धकाराननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य॥ १८५॥
अत्र भास्करकराः कल्याणं वः क्रियासुरिति वाक्यार्थः करशब्दशक्ति— स्वाभाव्यात् किसलयरुचय इत्यादिसमस्ततुल्यविशेषणयोगाच्च हस्तेष्वनुनादं जनयन् भगवतस्तेजोरूपतां पुरुषरूपतां च ध्वनति। तदुभयमपि तदनुस्यूतमेवेह निरूप्यत इत्यनुनादध्वनिः। एवम्— (सूर्यश. ३)
गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः प्रारम्भे वासरस्य व्युपरतिसमये चौकरूपास्तथैव।
निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा— नूष्माणं सन्तताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः॥ १८६॥
अत्र पादशब्दस्वाभाव्यात् सर्वमपि योजनीयम्। इयांस्तु विशेषः—'पूर्वत्र साधर्म्यद्वारेण इह तु वैधर्म्यद्वारेणे'—ति।
अत्र च प्रतिशब्दध्वनिः यथा— (सूर्यश. ९)
दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु॥ १८७॥
अत्र दीप्तांशोर्गावो रश्मयः स्तूयमानाः गोशब्दशक्तिस्वाभाव्यात् तुल्यविशेषण— योगाच्च धेनुषु प्रतिशब्दं जनयन्त्यस्तास्वपि विशिष्टं माहात्म्यविशेषं प्रतिध्वनन्ति।
एवम्—
मीलच्चक्षुर्विजिह्मं श्रुतिजडरसनं निघ्नितघ्राणवृत्ति स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम्।
विस्रस्ताङ्ग पतित्वा स्वयमपहरतादश्रियं वोऽर्कजन्मा कालव्यालावलीढं जगदगद इवोत्थापयन् प्राक्प्रतापः॥
(सूर्यश. ३१)
अत्रार्कजन्मा प्राक्प्रतापः कालव्यालावलीढं जगदुत्थापयन् अश्रियं वोऽपहरतादिति वाक्यार्थः। अर्कशब्दशक्तिस्वाभाव्यात् तुल्यकर्मक्रियापदादियोगाच्च अर्कवृक्षजन्मा अगदः कालव्यालदष्टमप्युत्थापयतीति प्रत्याययन्नर्को विषघ्नानां श्रेष्ठ इति प्रतिशब्दरूपं ध्वनिमुत्थापयतीति। एवमन्येऽपि महाकविप्रयोगेषु ध्वनिविशेषा गवेषणीया इति। यदुक्तं 'तात्पर्यमेव वचसि ध्वनिरेव काव्ये'१ इत्यादि।
कः पुनः काव्यवचसोर्ध्वनितात्पर्ययोः विशेषः ? ननूक्तं पुरस्तात्२—
१. ग्रन्थारम्भे ५ श्लोके। २. अत्रैव ६ प्रकाशान्ते।
यदवक्रं वचश्शास्त्रे लोके च वच एव तत्।
वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः॥ १८९॥
यदभिप्रायसर्वस्वं वक्तुर्वाक्यात् प्रतीयते।
तात्पर्यमर्थधर्मस्तच्छब्दधर्मः पुनर्ध्वनिः॥ १९०॥