१. शिवोऽप्याहेत्यर्थः। मे मम शिवस्य।
९. यदि वा
नास्य वाक्यस्य यः कश्चिद् वक्ता; किं तर्हि ? पूर्वज्ञैः क्रमागतविश्वपालने नियुक्तो महामाहेश्वरः कोऽपि पुंविशेषः। स च 'ग्रन्थविरचनाव्यग्रे मयि मा भुद्वर्णाश्रमाचारस्थितेः व्याकोप' इति महेश्वरमेव तत्समर्थं प्रार्थयते। अतोऽत्र विश्वस्यैव कर्मत्वमवगम्यते। रक्षितो राजा राज्यं रक्षतीति च न्यायादात्मन्यपि रक्षणीयताशीर्भवति। अत्र चाशीरेषणा; तिस्त्रश्चैषणा भवन्ति, प्राणैषणा वित्तैषणा परलोकैषणा च। राज्ञो या ह्येव प्राणैषणा सा वित्तैषणा सैव परलोकैषणेति भवति। तस्य (स)प्रकृतिकं राज्यं शरीरं, तदेव च वित्तं, तस्य ह्यसौ स्वाम्यमनुभवति। यथोक्तदण्डकरादानादिसम्भृतं वसु यशश्च वित्तं, स एव च धर्मः, तेन ह्यसाविमममुं च लोकं जयति; तदेतत्सर्वमपायेभ्यो विश्वरक्षयो X X X तं भवति। X X X देवता स्तोतव्येति शिष्टाचारः। न चाशीस्स्तुतिः; एवमेतत्; किन्तु गुणोत्कर्षप्रकाशनेन सर्वत उपर्यारोपणं स्तुतिः; सा च यथा आशास्यमानाभिमत— फलैकहेतुताप्रकाशनेन प्रत्याय्यते, नैवं नमस्तस्मै, स जयतीत्येवमादिभिरित्यभिप्रायः॥
१०. अथाखण्डवाक्यार्थपक्षावलम्बिनो द्वितीयश्लोकस्यं व्याख्या—'स भगवान् गणाधिनाथो विघ्नच्छिदेऽस्तु यत्पादपङ्कजरजः परिमार्जितेषु दर्पणतलामलतां गतेषु शब्दार्थसम्पद उदारतराः स्फुरन्ति' इति। इहापि पङ्कजदर्पणार्थसम्पद्— भगवदादयः शब्दाः, गौणी च वृत्तिः मङ्गलार्थाः; इयमपि द्वादशपदा नान्द्येव; इहापि रूपकोपमाश्लेषसमाधिगर्भः कारणमालाङ्गवानाशीरलङ्कार इति योजनीयः।
११. ननु च सम्बन्धिनोऽध्याहारात् त्रयोदशेह पदानि ?
नैवम्, विभक्त्या क्तयादिपरिणामेन शब्दार्थसम्पत्परिस्फुरणस्यैवात्र सम्बन्धित्वात्। तथा ह्येवमियं कारणमाला समाप्यते भगवतः पादपङ्कजमार्जने, मार्जनस्य नैर्मल्ये, नैर्मल्यस्य शब्दसम्पदामर्थसम्पदां च परिस्फुरणे, तस्य च प्रबन्धविघ्नच्छेदे कारणं भवतीति। रूपकोपमाश्लेषपदानि चेह पादपङ्कजदर्पणतलामलरजांसि प्रतीयन्ते। तत्रोदारतराः शब्दार्थसम्पदः परिस्फुरन्तीति च समाधिरपि प्रकाशते। आदर्शतलेषु हि किलोदारदर्शनाः स्त्रियः स्वलङ्कृतमात्मानमवलोकयन्ति। स चान्यधर्माणामन्यत्रारोपणं समाधिरिति। एतच्च १वरवाचां सूचनापरमित्यवधार्यमाणमस्य वचसस्तात्पर्यं भवति; तदिदमुक्तं 'तात्पर्यमेव वचसि' इति।
१. वरवाचां = व(क्तुरुदा)रवाचां—राघवः।
१२. कः पुनरिह रूपकोपमयोर्विशेषः ?
उच्यते — यत्रात्यन्तसादृश्यादभेदोपचारेणेवादिशब्दविकलमुपमानपदमेवोपमेये प्रवर्तमानं गौणीं वृत्तिमनुभवत् समानाधिकरण्येन विशेषणत्वमनुभवति तद् रूपकम्, यथा मुखचन्द्रः, पादपङ्कजमिति। यत्र तु मुख्यानुभव X X X यमात्मनोपमेयस्य साम्यमभिधत्ते सोपमा, यथा चन्द्र इव मुखमादर्शतलामलं चेति॥
१३. अथ यदेषदसमाप्ति—प्रतिकृत्योर्बहुच्कल्पबादयः कनादयो (५.३.६७, ६८,९५) वा अत्यन्तसादृश्यादुपमेयवृत्तिभ्य एवोपमानशब्देभ्यः स्वार्थिका विधीयन्ते, तदा किमुपमाने प्रत्यय आहो उपमेय इति।
किंचातः ?
यद्युपमाने, गुडकल्पा द्राक्षा, कुशाग्रीया (५.३.१०५) बुद्धिरित्युपमेयलिङ्गं न प्राप्नोति; उपमेये, बहुगुडो द्राक्षा(५.३.६८) चञ्चा च लिङ्गं न प्राप्नोति। लिङ्गमशिष्यं लोकश्रयत्वात् (मभा. २.१.३६)। स्वार्थिकाश्च क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते (मभा. ५.३.६८), यथा 'देव एव देवता' (५.४.२७) चत्वार एव वर्णाश्चातुर्वर्ण्यम् (५.१.१२४ वा.) इति।
किमेतद् वक्तव्यम् ?
कथमनुक्तं गम्यते ?
आचार्यप्रवृत्तिर्ज्ञापयति यदयं 'कर्मव्यतिहारे णच् स्त्रियाम्' (३.३.४३) इति णचं विधाय तदन्तात् स्वार्थिकविधाने 'णचः स्त्रियामञ्' (५.४.१४) इति पुनः स्त्रीग्रहणं करोति। अभेदोपचारणैव च प्रतिकृतिलिङ्गवचनं X X X या X X X 'लुप् मनुष्ये' इति लुकमतिक्रम्य प्र(ति)कृतिवचनेभ्यो लुपं शास्ति।
१४. कथं पुनः 'ईषदपरिसमाप्तौ' 'इवे प्रतिकृतौ' इति इवार्थे वा विधीयमानः प्रत्यय उपमान उपमेये वा शङ्क्येत ?
ईषदपरिसमाप्ते क्रियात्वेन इवार्थस्य चासत्त्वभूतत्वेन लिङ्गवचनायोगात् प्रत्ययान्तरेषु च लिङ्गसङ्ख्यावशादीषदपरिसमाप्तौ चेवार्थे वर्तमानात् प्रातिपदिकात् स्वार्थे प्रत्ययो भवतीति विज्ञायते।
किं पुनरिह न्याय्यम् ?
उपमाने प्रत्यय इति॥
१५. ननु च गुड इवेयं गुडो द्राक्षा, चञ्चेवायं चञ्चा पुरुष इति गुडादिशब्दा माधुर्यादिगुणयोगेन द्राक्षादिषु वर्तन्ते। ततश्च द्राक्षादयः प्रकृत्यर्था भवन्ति। प्रकृत्यर्थे चोपमेये स्वार्थिकाः कल्पबादय इति कथमुपमाने प्रत्यय इति ?
मैवम्; न हि द्राक्षायास्तत्रापरिसमाप्तिः, अपि तु गुडस्य। येन हि गुणेन माधुर्यादिना गुडशब्दो द्राक्षायां वर्तमानो गौणीं वृत्तिमनुभवति तस्यैवेषदसमाप्तौ प्रत्ययो विधीयते। अद्यैवं गुडस्येषदपरिसमाप्तौ वर्तमानस्य स्वार्थे प्रत्ययविधानात् बहुगुडो द्राक्षेति। सोऽयमित्यभिसम्बन्धाद् अव्यतिरेक इति चेद् व्यतिरेकमूलत्वाद— व्यतिरेकस्य प्रसङ्गः, यथा शुक्लः पटः. पटस्य शुक्ल इति।
नैवम्; उपपद्यमानव्यतिरेकाणामुभयं भवति। न चात्र तदुपपत्तिः; न हि यथा शुक्लगुणोऽस्तीति मतुब्लोपादपृथक्सिद्धशुक्लगुणवाचिना शुक्लशब्देन पटोऽभिधीयते, तथा गुड इत्यनेन। स हि द्रव्यशब्दो द्रव्यान्तरसामानाधिकरण्यान्यथानुपपत्त्या गौणीं वृत्तिमाश्रित्य स्वनिबन्धनं द्रव्यान्तरे व्यतिरेकमुपनिधत्ते। तत्र सामानाधिकरण्यभ्रंशात् गुणवृत्तेरपि भ्रंशो मा भूदिति न व्यतिरेकलक्षणा षष्ठी भवति। न च गुणवचनानामपि केषांञ्चिल्लोके व्यतिरेक उपलभ्यते। न हि भवति पटुः पटुकल्पोऽयं देवदत्त इति।
१६. कथं पुनर्गुणवृत्त्याप्युपमेये वृत्तेर्गुडशब्दात् स्वार्थे विधीयमानः प्रत्यय उपमानं प्रत्याययति,
द्रव्यवत् प्रवृत्तिनिमित्तस्यापि स्वार्थत्वात्। तथा हि चञ्चा तृणमयः पुरुषो यः क्षेत्ररक्षणाय क्रियतेः तस्य च पुरुषे प्रवर्तमानस्य स्वाकारः प्रवृत्तिनिमित्तम्; अतः 'इवे प्रतिकृतौ' (५.३.९६) इतीवार्थे तत्रैव प्रत्ययो भवति।
१७. ननु च यदि प्रतिकृतौ वर्तमानात् प्रातिपदिकात् स्वार्थे प्रत्ययः, किम् इवार्थ इत्यनेन ? अथेवार्थे कृतं प्रतिकृतावित्यनेन ?
उच्यते; उपचरितशब्दानां शक्तिमहिम्नैव त्रयी गतिर्भवति। क्वचिदिवार्थ एव स्वार्थिकः, 'कुशाग्रीया बुद्धिः, शैलेयं दधीति। क्वचित् प्रतिकृतावेव, 'वासुदेवो भीमसेन' इति। क्वचिदिवार्थे प्रतिकृतौ च, यथा वरोरूः पीवरोरूरिति। अत्र यदि वरशब्देन पीवरशब्देन वा ऊर्वोरेव गुणोऽभिधीयेत तदा 'ऊरूत्तरपदादौपम्ये' (४.१.६९) इत्यूङ्न सिद्धयति। ततश्चौपम्याय कर्तव्योऽत्र य X X X वं स्यात्। यदि वरशब्दः पीवरशब्दो वा वरे पीवरे च रम्भास्तम्भस्तम्बेरमकरादौ वर्तित्वात् तत्सादृश्यात् तदुपमेययोरूर्वोर्वर्तेत, तच्चेवार्थे प्रतिकृतौ वर्तमानयोस्तयोः प्रत्ययलुग्विधावे भवति। अन्यथा हि 'वरत्वं पीवरत्वमेव' च लभ्यते, न संस्थानविशेष इति।
न भवितव्यम्। प्रत्ययमन्तरेणापि स्वस्रदीनामिव तस्य ताच्छीलिकान्तत्वेन स्त्रीत्वाभिधानमेव 'ऋन्नेभ्यो ङीप्' (४.१.५) इत्यस्य 'न षट्स्वस्त्रादिभ्यः' (४.१.१०) इति प्रतिषेधः प्रत्याख्यायते। किं पुनरमी उपमानशब्दा लुप्तप्रत्ययत्वेन गुणीभूता एव कल्पबादीनामुत्पत्तिनिमित्तं भवन्ति ?
बाढम्। 'अजादी गुणवचनादेव' (५.३.५८) इत्यतो हि गुणवचनादित्य— धिक्रियते। ततश्च बूहुच्कल्पब्देश्यदेशीयर ईषदसमाप्तिम्, एवं प्रशंसायां रूपप् विधीयमानः पचतिरूपं पचतोरूपं पचन्तिरूपमिति क्रियालक्षणस्य गुणस्यैव प्रशंसां द्योतयन्ति। अन्यथा हि सर्वत्रैकवचनं न स्यात् (मभा. ५.३.३६)। न च द्रव्यस्य समाप्तिः असमाप्तिः कुत्सा प्रशंसा वा स्वतः सम्भवति, अपि तु गुणतः। अतश्च गौण्या मुख्यया वा मन्दमध्योत्कृष्टेषु गुणेषु वर्तमानात् प्रातिपदिकादीषदसमाप्तौ द्योत्यायां कल्पबादयो भवन्ति।
१८. ननु च निर्ज्ञातस्यार्थस्य समाप्तिरसमाप्तिर्वा भवति। गुणश्च अनिर्ज्ञातः, लोकतो गुणस्य निर्ज्ञानम्। तद्यथा पटुरयं ब्राह्मणः, यो लघुनोपायेनार्थं निर्वर्तयति, पटुकल्पोऽयं यो नातिलघुनेति। एवं 'पटुतरः' शुक्लतमः कनीयाम् पटिष्ठः उत्कृष्टतरः वैयाकरणपाश' इत्यादिषु तरबादयोऽपि गुणवचनेभ्यो विधीयमाना गुणगतमेव प्रकर्षं द्योतयन्ति।
१९. कथं पुनरतिशायनादौ विधीयमानास्तरबादयो गुणप्रकर्षे भविष्यन्ति, न पुनर्द्रव्यप्रकर्ष इति ?