Skip to main content
Search
Ch. 7 SP 7.956
Full Chapter
SP • Chapter 7: Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

SP 7.956

Canonical Ref: SP 7.956
Sanskrit (Devanāgarī)
उच्यते; उपचरितशब्दानां शक्तिमहिम्‍नैव त्रयी गतिर्भवति। क्‍वचिदिवार्थ एव स्वार्थिकः, 'कुशाग्रीया बुद्धिः, शैलेयं दधीति। क्‍वचित् प्रतिकृतावेव, 'वासुदेवो भीमसेन' इति। क्‍वचिदिवार्थे प्रतिकृतौ च, यथा वरोरूः पीवरोरूरिति। अत्र यदि वरशब्देन पीवरशब्देन वा ऊर्वोरेव गुणोऽभिधीयेत तदा 'ऊरूत्तरपदादौपम्ये' (४.१.६९) इत्यूङ्न सिद्ध‍यति। ततश्चौपम्याय कर्तव्योऽत्र य X X X वं स्यात्। यदि वरशब्दः पीवरशब्दो वा वरे पीवरे च रम्भास्तम्भस्तम्बेरमकरादौ वर्तित्वात् तत्सादृश्‍यात् तदुपमेययोरूर्वोर्वर्तेत, तच्‍चेवार्थे प्रतिकृतौ वर्तमानयोस्तयोः प्रत्ययलुग्विधावे भवति। अन्यथा हि 'वरत्वं पीवरत्वमेव' च लभ्यते, न संस्थानविशेष इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 7.956. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 7.955) All Verses in Chapter 7 Next Verse (SP 7.957) →