Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 07

Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

प्रकाशः 7 • केवलशब्दसम्बन्धशक्तिप्रकाशः

Prakāśa 7 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1087 Verses • Citations: SP 7.1–1087 • 4 Lexicon Terms • Page 2 of 37 (Verses 30 shown)
२. अयं, सः, त्वम्, अहम् इत्यादिव्यपदेशार्हार्था व्यक्तिविषया यथा—
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी।
रामा रम्ये वनोद्देशे मया विरहिता त्वया॥ ५॥
निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि।
नीलोत्पलेषु विमृशति करमर्पयितुं कुसुमलावी॥ ६॥
३. चित्रबिम्बप्रतिमाद्यर्थवाचिन्याकृतिविषया यथा—
इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत् समागमः॥ ७॥
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्‍चात्।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्द्वश्‍यतेऽभिनवा॥ ८॥
४. श्वेतः कर्कशः कृशः स्थूल इत्यादिर्गुणविषया यथा— (काव्याद. २.१००)
श्‍यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः।
भुवश्‍च सुकुमाराभिर्नवशाद्वलराजिभिः॥ ९॥
ताम्बूलबहलरक्तः प्रियभुक्तो धूसरः सपर्यन्तः।
बालाधरोऽधिरोहति कुसुमरुचः काञ्चनारस्य॥ १०॥
५. पक्ता पचन् पक्‍वः पच्यमान इत्यादिः क्रियाविषया यथा— (भट्टि. १८.४०)
दातुः स्थातुर्द्विषां मूर्ध्‍नि यष्टुस्तर्पयितुः पितॄन्।
युध्यभग्‍नविपन्नस्य किं दशास्यस्य शोचति॥ ११॥
कुविआओ पसण्णाओ ओरुण्णमुहीओ विहसमाणीओ।
जह गहिआ तह हिअअं हरंति उच्छण्णमहिळाओ॥ १२॥
(कुपिताः प्रसन्ना अवरुदितमुख्यो विहसन्त्यः।
यथा गृहीतास्तथा हृदयं हरन्ति उत्सन्नमहिलाः॥)
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →