Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 07

Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

प्रकाशः 7 • केवलशब्दसम्बन्धशक्तिप्रकाशः

Prakāśa 7 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1087 Verses • Citations: SP 7.1–1087 • 4 Lexicon Terms • Page 8 of 37 (Verses 30 shown)
मुख्यया गौण्या वान्यविशेषणस्य सतोऽन्यत्रारोपणम् उपचारः।
तन्निमित्तिकोपचारनिमित्ता; सा तु गौणव्यवहितार्थत्वाद् गौणी भवति; तस्या अपि धर्मगुणाकृतिक्रियास्वरूपजात्यादयः प्रवृत्तिनिमित्तम्; तद्भेदात् सापि षट्प्रकारा भवति—
धर्मनिमित्ता, गुणनिमित्ता, आकृतिनिमित्ता, क्रियानिमित्ता, स्वरूपनिमित्ता, जातिनिमित्ता च। तासु—
भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी॥ ५२॥
तालै; शिञ्जद्‍वलयसुभगैर्नर्तितः कान्तया मे॥ ५३॥
अत्र कठोरसुभगशब्दो मूर्तिमद्‍द्रव्यप्राणिविशेषयोर्विशेषणत्वेन रूढौ, रोषवलयशिञ्जयोरारोप्यमाणौ, तद्योगान्नायिकातालयोरपि विशेषणभावमनुभवतः।
(२) गुणनिमित्ता यथा— (शाकु. १.१७)
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥ ५४॥
उच्‍चिणस्सु पडिअ—कुसुमं मा धुण सेहालिअं हलिअ—सुण्हे।
एस अवसाणविरसो ससुरेण सुओ वलअसद्दो॥ ५५॥
(उच्‍चिनुष्व पतति—कुसुमं मा धुनीहि शोफालिकां हालिक—स्नुषे।
एषोऽवसानविरसः श्‍वशुरेण श्रुतो वलय—शब्दः॥)
अत्र मधुरविरसशब्दावास्वाद्यविशेषणत्वेन रूढौ तद्‍व्यवधानेन वर्णनयाऽऽकृतिवलयशब्दयोरारोपितौ विशेषणभावमनुभवतः।
अङ्कुरिते पल्लविते कोरकिते कुसुमिते च सहकारे।
अङ्कुरितः पल्लवितः कोरकितः कुसुमितश्‍च हृदि मदनः॥ ५६॥
पल्लविअं पिव/विअ करपल्लवेहिं पप्फुल्लिअं व णयणेहिं।
फलिअं विअ पीणपओहरेहि अज्जाएॅ लावण्णम्॥ ५७॥
(पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम्।
फलितमिव पीनपयोधराभ्यामार्याया लावण्यम्॥)
अत्राङ्कुरितपल्लवितादयो मूर्तिमत्सु भूरुहादिषु आकृतिविशेषतो विशेषणत्वेन रूढास्तद्‍व्यवधानेनामूर्तयोर्मदनलावण्ययोरारोप्यमाणा गौणं विशेषणभावमनुभवन्ति।
शशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि।
कुमुदरजः पटवासं विकिरति गगनाङ्गणे पवनः॥ ५८॥
अवऊहिअपुव्वदिशे समअं जोण्हाए सेविअपओसमुहे।
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →