Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 07

Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

प्रकाशः 7 • केवलशब्दसम्बन्धशक्तिप्रकाशः

Prakāśa 7 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1087 Verses • Citations: SP 7.1–1087 • 4 Lexicon Terms • Page 22 of 37 (Verses 30 shown)
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्॥ १४९॥
अत्र पाण्डुसुतं सुयोझन इति वक्तव्ये पाण्डुसुतः सुयोझनमिति भानुमतीविरहवैमनस्यप्रयुक्तस्य सुयोधनवाक्यस्यान्यथात्वमनुच्यमानं भाविनोऽर्थस्य तथात्वमवबोधयति।
३. वाक्यासमाप्‍तिर्यथा— (उराच. ३.२६)
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुध्य मुग्धां तामेव शान्तमथवा किमतः परेणा॥
अत्र 'शान्तमथवा किमतःपरेणे'ति वासन्तीवाक्यासमाप्तिः 'सुहृद्विषये नामङ्गलं वक्तव्यमि'—ति प्रतिपादयति।
अक्षुद्राऽरिकृताऽभिमन्यु—निधन—प्रोद्भूत—तीव्र—क्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याऽकृत—शात्रव—प्रतिकृतेरन्तश्शुचा मुह्यतो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद् बहिः॥ १५१॥
अत्र हा वत्सेति वाक्यानुच्‍चारणमकृतशत्रुप्रतिक्रियाणां महात्मनामनुचितं परिदेवनमिति ज्ञापयति।
विरामो यतिः। स चतुर्धा— पदे, पादे, अर्धे, स्थाने च।
तस्यान्यथाकरणं यतिविच्छेदः।
सम्पदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि।
शारदाभ्रदलचञ्चलमायुः, किं धनैः, परहितानि विदध्वम्॥ १५२॥
अत्र किं धनैरिति पदयतौ न्याय्योऽर्थः प्रतीयते, तस्यान्यथाकरणं किमित्यत्रैव विच्छेदः; तेन च किमिति धनैः परहितानि विदध्वमित्यन्याय्यः।
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ १५३॥
अत्र यदा पादे पादे यतिस्तदा न्याय्योऽर्थः प्रतीयते; यदा त्वाज्ञासिद्धानि चत्वारि नेति पादमतिक्रम्य तदा अन्याय्य इति।
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि ! साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ १५४॥
अत्र यदार्धे यतिस्तदैकस्या एवेदं वाक्यमित्यन्योऽर्थः प्रतीयते; यदा तु तद्विच्छेदात् पाद एव यतिः क्रियते तदा द्वयोः बह्वीनां वा एकवाक्येनान्य इति।
येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः।
यस्याहुश्शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः॥ १५५॥
अत्र द्वादशसु सप्‍तसु चाक्षरेषु यतिस्थानम्, तदतिक्रमेण बलिजित्काय इति शशिमच्छिरोहर इति च यतिकरणे उमाधवो माधवश्च त्वामव्यादित्यर्थौ क्रमेण प्रतीयेते इति।
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →