Skip to main content
Search
Ch. 7 SP 7.400
Full Chapter
SP • Chapter 7: Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

SP 7.400

Canonical Ref: SP 7.400
Sanskrit (Devanāgarī)
अन्ये पुनर्लक्षितलक्षणामन्यथा व्याचक्षते— लक्षणयोपचरितवृत्त्या गौण्या अर्थेन यत्रार्थान्तरं लक्ष्यते सा लक्षितलक्षणेति। यथा— रथावयवायुधः, पङ्‌क्तिरथः (रघु. ९.७४), रथाङ्गनामेति (रघु. ३.२४); अत्र रथावयवशब्देन चक्रं लक्ष्यते, तेन तदाकृतिः तन्नामा आयुधविशेषः; पङ्‌क्तिरित्यनेन दशाक्षरं छन्दो लक्ष्यते, तेन दशशब्दः, ताभ्यां चायुधसन्निधेश्चक्रायुधः, दशरथः इति देवविशेषराजविशेषौ लक्ष्येते। रथाङ्गमित्यनेन रथैकदेशो लक्ष्यते, तेन चक्रशब्दः, नामेत्यनेन परिभाषणं लक्ष्यार्थः; ताभ्यामन्योन्यसन्निधेश्चक्रवाक इति पक्षिविशेषो लक्ष्यत इति। अस्याश्च प्रबन्धेषु भूयसा प्रयोगः। तद्यथा— (गास. ६१)
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 7.400. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 7.399) All Verses in Chapter 7 Next Verse (SP 7.401) →