Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 05

Prakāśa 5: उपाध्याद्यर्थचतुष्टयप्रकाशः

प्रकाशः 5 • उपाध्याद्यर्थचतुष्टयप्रकाशः

Prakāśa 5 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 5.1–841 • 4 Lexicon Terms • Page 28 of 29 (Verses 30 shown)
तस्मात् सकृदभिव्यक्ता नान्यदापि प्रतीयते॥ १५४॥
अभिव्यक्तिश्‍च तद्देशा यद्देशा व्यक्तिरीक्ष्यते।
तस्मादस्मिन्नभिव्यक्ता न देशेऽन्यत्र दृश्‍यते॥ १५५॥
पिण्डसर्वगतत्वेऽपि स्वयूथ्यैः कैश्‍चिदाश्रिते।
भविष्यत्यन्यजातायां गवि गोधीस्तथाग्रहात्॥ १५६॥
जायमानैव हि व्यक्तिर्जायते जातियोगिनी।
एक एव हि कालोऽस्या जातिसम्बन्धजन्मनोः॥ १५७॥
नेह जातेः पुरास्तित्वं न च संक्रान्तिरन्यतः।
किं तु स्वहेतोस्सा व्यक्तिस्तादृशैवोपजायते॥ १५८॥
कथमेतदितीदं तु येन पर्यनुयुज्यते।
इदमप्यपरं हन्त तेन पर्यनुयुज्यताम्॥ १५९॥
वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणाशिनी।
ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डुरः॥ १६०॥
यथा रूपादिसम्बद्धा सा व्यक्तिरुपलभ्यते।
तथैव जातियुक्तेति का ते व्यसनसन्ततिः॥ १६१॥
अगोव्यावृत्ततायां च नैष प्रश्‍नो निवर्तते।
तस्मादगोनिवृत्तं तदन्यजातं स्वलक्षणम्॥ १६२॥
तस्माद् वस्तुस्वभावस्य विदित्वाऽननुयोज्यताम्।
चोद्यचुञ्चुत्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम्॥ १६३॥
प्रतिपत्तिश्‍च विशेषेष्विव सामान्येऽपि निरपवादा दर्शितैव। तस्माद् विशेषवदप्रत्याख्येयं सामान्यम् इति।
उपाधिरेवं त्रिविधः प्रधानमपि च त्रिधा।
त्रिधोपस्कारवान् प्रातिपदिकार्थश्‍च वर्णितः॥ १६४॥
वाचकत्वं निपातानां द्योतकत्वं च निश्‍चितम्।
कर्मप्रवचनीयानामुक्ता सम्बन्धसङ्गतिः॥ १६५॥
अथो विभक्त्यर्थविधिस्त्रिधोच्यते त्रिधैव वृत्त्यर्थपदार्थनिर्णयः।
क्रियादिवाक्यार्थनिवर्तनात् ततस्त्रिधैव वाक्यार्थगतिः प्रपञ्च्यते॥ १६६॥
इति महाराजाधिराज—श्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे उपाध्याद्यर्थचतुष्टयप्रकाशो नाम ॥ पञ्चमः प्रकाशः॥ ५॥
प्रकाश एषोऽस्तु रतिप्रियस्य शरः परः पञ्चम एव यस्मिन्।
लग्‍ने स्मारेरपि हृष्यति स्वं वशंवदं फालगतं च चक्षुः॥
सनातनः कश्‍चन भोजराजं जीर्णञ्च शीर्णञ्च विभाव्य तस्मै।
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →