अविवक्षितक्रियाविरामः प्रबन्धाद्यतनः, यथा यावज्जीवं भृशमन्नमदात्।
विवक्षितक्रियानन्तर्यः सामीप्याद्यतनः, यथा— येयं गता पौर्णमासी अस्यामुपाध्यायोऽग्नीनाधित। अत्रानन्तरयोः 'नानद्यतनवत् क्रियाप्रबन्ध— सामीप्ययोः' इति स्मर्यते।
(२. भूतानद्यतनः —६) एवं लङ्निमित्तमविद्यमानाद्यतनो भूतानद्यतनः।
स षोढा— सामान्यानद्यतनः, विशेषानद्यतनः, अभिज्ञानद्यतनः, प्रसिद्धयपरोक्षः, प्रश्नापरोक्षः, ह—शश्वदपरोक्ष इति। तेषु—
अविवक्षितपरोक्षत्वादिः सामान्यानद्यतनः यथा— अकरोत्, अशृणोत्, न्यषीदत्, अमुत्रावसम्, 'आसीदिदं तमोभूतम्' रामो वनमगच्छदिति।
पदान्तरावगतपरोक्षत्वादिविशोषो विशेषानद्यतनः, यथा— अवसन्निह पुरा छात्राः।
'न यदि' इत्यभिज्ञावचनं लृङपवादोऽभिज्ञानद्यतनः, यथा— स्मरसि देवदत्त काश्मीरेषु यवदसाम।
लोकप्रसिद्धेरारोपितापरोक्षाभिमानः प्रसिद्धयपरोक्षः, यथा—अजयज्जयन्तो हूणान्।
प्रश्नोपभुक्तपरोक्षत्वं प्रश्नापरोक्षः, यथा— किमगच्छद्देवदत्तः।
ह—शश्वदर्थोपक्षीणपरोक्षत्वो ह—शश्वदपरोक्षः, यथा—इति ह अकरोत्, शश्वदकरोदिति।
(३. भविष्यत् —६) अनागतामात्रं लृडादिविशेषो भविष्यत्।
स षोढा— सामान्यभविष्यत्, विशेषभविष्यत्, लिप्साभविष्यत्, प्रबन्धाद्यतनः, सामीप्यद्यतनः प्रविभागाद्यतन इति। तेषु —
अनिर्धारितानद्यतनादिः सामान्यभविष्यत्, यथा— करिष्यति, बलिरिन्द्रो भविष्यति, कदा गमिष्यसि, एष गमिष्यामि, पक्ष्यन् व्रजति, पाचका व्रजतीति।
निर्धारिताद्यत्वविशेषो विशेषभविष्यत्, यथा— अद्य गमिष्यामीति।
लिप्सोपाधिको लिप्साभविष्यत्, यथा— यो मे भिक्षां दास्यति स स्वर्गं लोकं यास्यतीति।
अविवक्षितक्रियाविरामः प्रबन्धाद्यतनः, यथा— यावज्जीवं भृशमन्नं दास्यतीति।
विवक्षितक्रियानन्तर्यस्सामीप्याद्यतनः, यथा— येयमागामिनी पौर्णमासी अस्यामुपाध्यायोऽग्नीनाधास्यतीति।
'भविष्यति मर्यादावचनेऽवरस्मिन्', 'कालविभागे चानहोरात्राणाम्', 'परस्मिन्विभाषा' इति प्रविभागानद्यतनः, यथा— योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्रोदनं भोक्ष्यामहे, योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहा— यण्यास्तत्र युक्ता अध्येष्यामहे, एवं परस्मिन्विभाषेत्यपि द्रष्टव्यमिति।
(४. भविष्यदनद्यतनः —६) भविष्यन्नेवाविद्यमानाद्यतनो लुण्णिमित्तं भविष्यदनद्यतनः।
स षोढा— सामान्यानद्यतनः, लिप्सानद्यतनः, परिदेवनानद्यतनः, परावरविभागीयः, पराप्रविभागीयः, (अध्वविभाषीय) इति। तेषु—
अनिर्धारितक्रियाप्रबन्धः सामान्यानद्यतनः, यथा— कर्ता कर्तारौ कर्तारः, कारिता कारितारौ कारितार इति।
शब्दान्तरावगतविशोषो विशोषानद्यतनः, यथा— त्वं पक्ता।
लिप्सोपाधिको लिप्सानद्यतनो यथा यो मे भिक्षां दाता स स्वर्गं लोकं गन्ता।
परिदेवनोपाधिकः परिदेवनानद्यतनः, यथा— इयं नु कदा गन्ता यैवं पादौ निदधाति, अयं तु कदाध्येता य एवमनभियुक्तः।
'कालविभागे चानहोरात्राणाम्' इत्यहोरात्रविषयः परापरविभागीयः, यथा— योऽयमागामी मासस्तस्य यः परः पञ्चदशरात्रस्तत्रौदनं भोक्तास्महे, योऽयमागामी त्रिंशद्रात्रस्तस्य योऽपरः पक्षस्तत्र युक्ता अध्येतास्महे।
परस्मिन्विभाषेत्यनहोरात्रकालध्वमर्यादाविषयः परप्रविभागीयः, यथा— योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यस्तत्र पाटलिपुत्रं गन्तास्मः।
स एव अध्वविभाषाविषयोऽध्वविभाषीयः, यथा— योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्याः तत्र सक्तून् पातास्म इति।
(५. वर्तमानः —६) अवाप्ताप्रच्युतक्रियाविषयो लडादिनिमित्तं वर्तमानः।
(स) षोढा— सामान्यवर्तमानः, विशेषवर्तमानः, अविरामवर्तमानः, प्रवृत्तोपरतः, वृत्ताविरतः, नित्य(प्र)वृत्त इति। तेषु—
अनपेक्षितविरामादिविशेषस्सामान्यवर्तमानः, यथा— अस्ति, भवत्, कुर्वाणः, पच्यमानः, पवमानः, कवचमुद्वहमान इति।