Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 05

Prakāśa 5: उपाध्याद्यर्थचतुष्टयप्रकाशः

प्रकाशः 5 • उपाध्याद्यर्थचतुष्टयप्रकाशः

Prakāśa 5 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 5.1–841 • 4 Lexicon Terms • Page 13 of 29 (Verses 30 shown)
कीर्त्तितासु न कीर्त्त्यन्ते यासु कस्यापि कीर्त्तयः॥ २९॥
(प्रत्यापत्तिः) 'आख्यानात्कृतस्तदाचष्‍टे कृल्लुक‍्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्‍च कारकम्' इत्यादिः। प्रत्यापत्त्युपस्कारार्थः, यथा—
शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरूद‍्भाव्यते॥ ३०॥
(उपपदः) 'अपादाने परीप्सायां' णमुलित्यादिरुपपदोपस्कारार्थः, यथा—
किञ्चिच्छेषनिशातुषारमधुरस्पर्शं गृहप्राङ्गणे
शय्योत्थायमिहं व्रजन्ति हलिनां बालाः कुकूलानलम्॥ ३१॥
(२) प्रत्ययद्वारकोऽपि षोढा— लोपागमवर्णविकारविकरणादेशोपग्रहभेदात्। तेषु— लोपार्थः 'फलकुसुमयोर्लुक्' (४.३.१६६) यथा—
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः॥ ३२॥
आगमार्थो 'हृषेर्लोमसु' (७.२.२९) इट्, यथा—
आननैर्विचकसे (हृषिताभिः) वल्लभानभि तनूभिरभावि॥ ३३॥
वर्णविकारार्थः 'दिवोऽविजिगीषायां' (८.२.४९) निष्ठानत्वम्, यथा—
आद्यूनस्सद्‍गृहिण्येव प्रायो यष्ट्यावलम्बितः॥ ३४॥
विकरणार्थः, 'श्लिष आलिङ्गने' (३.१.४६) वसः, यथा—
आश्लिक्षद् भयचपलेक्षणा नवोढा
भर्तारं विपदि न दूषितातिभूमिः॥ ३५॥
आदेशार्थ 'आशिषि तुह्योस्तातङ्' (७.१.३५) यथा—
भवताद् भवतो मतिश्शुभा जयताज्जीव भवावनीश्वरः॥ ३६॥
उपग्रहार्थः 'अधेः प्रसहने' (१.३.३३) कृतेः आत्मनेपदम्, यथा—
भवादृशाश्‍चेदधिकुर्वते रतिं
निराश्रया हन्त हता मनस्विता॥ ३७॥
(३) उभयद्वारकः तु द्वादशधा— अवधि—सम्बोधन—क्रियाविशेषण—कारकविशेषण— शेष—परिशेष—सहार्थ—तादर्थ्य—हेतु—लक्षणोपपद—प्रकीर्णभेदात्। तत्र—
(१. अवधिः —६) क्रियादीनां मिथो मर्यादावधिः;
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →