अपेक्षितक्रियं द्विधा, व्यवहितमव्यवहितं च। तयोः
व्यवहितं यथा— ग्रामादागच्छति, ब्राह्मणाय ददाति, पर्यङ्के शेत इति।
अव्यवहितं यथा— कटं करोति, दात्रेण लुनाति, देवदत्तेनास्यत इति।
अनुषक्तक्रियं द्विधा, तुल्याधिकरणमतुल्याधिकरणं च। तयोः
तुल्याधिकरणं यथा— शुक्लीभवति, उन्मनी स्यात्, भस्मसात् संपद्यत इति।
अतुल्याधिकरणं यथा— पटपटाकरोति, देवत्रागच्छति, मनुष्यत्रावसति इति।
(३) अभिन्नक्रियं त्रिधा, तिङभिधेयं, कृदभिधेयं तद्धिताभिधेयं च। तत्र—
तिङभिधेयं द्विधा कर्तृरूपं कर्मरूपं च। तयोः
कर्तृरूपं यथा— पचति देवदत्तः, दुग्धे गौः, चोरस्य रूजति रोग इति।
कर्मरूपं यथा— पच्यते ओदनः, भिद्यते कुसूलः, उष्ट्रासिका आस्यन्त इति।
कृदभिधेयं द्विधा, विशेष्यं विशेषणं च। तयोः
विशेष्यं यथा— दात्रं, प्रासादः, कुम्भकार इति।
विशेषणं यथा—कर्तव्यं, पाचकः, सुबोधमिति।
तद्धिताभिधेयं द्विधा— सापेक्षक्रियमनपेक्षितक्रियं च। तयोः
सापेक्षक्रियं यथा— इष्टी यज्ञे, परिगणिती याज्ञिक्ये, आम्नाती छन्दसि, अधीती व्याकरणे, कृतपूर्वी कटमिति।
अनपेक्षक्रियं यथा— पाकेन निर्वृत्तं पाकिमं, सेकेन निर्वृत्तं सेकिमं, कुट्टेन कुट्टिमं, करणेन कृत्रिमं, श्येनपातोऽस्यां क्रियायां तिलपातोऽस्यां क्रियायां श्यैनंपाता तैलंपातेति।
(७. उपस्कारार्थः)
प्रकृतिप्रत्ययोभयद्वारकं पदार्थविशेषणमुपस्कारार्थः।
स त्रिधा— (१) प्रकृतिद्वारकः, (२) प्रत्ययद्वारकः, (३) उभयद्वारकश्च। तेषु—
(१) प्रकृतिद्वारकः षोढा— लोपागमवर्णविकारादेशप्रत्यापत्त्युपपदोपस्कारभेदात्। तेषु — (लोपः)'रञ्जेर्णौ मृगरमणे' नलोप इत्यादिर्लोपोपस्कारार्थो यथा— (किराता. ६.२४)
धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयन् गुरूभिः।
रजयाञ्चकार विरजाः स मृगान् किमिवेशते रमयितुं न गुणाः॥ २६॥
(आगमः) 'अश्ववृषयोर्मैथुनेच्छायाम्' इत्यादिरागमोपस्कारार्थः, यथा—
अनेकयुगजीविन्यास्त्रेता यस्यास्त्रयोदशी।
सा क्षीरकण्ठकं वत्सं वृषस्यन्ती न लज्जिता॥ २७॥
(वर्णविकारः) 'वेश्च स्वनो भोजने' मूर्धन्य इत्यादिर्वर्णविकारोपस्कारार्थः यथा—
ग्लानिच्छे(दी) क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं झारिताजीर्णशेषः।
स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद् व्यस्वनच्च॥ २८॥
(आदेशः) 'मातुर्मातच्पुत्रे श्लाघ्य' इत्यादिरादेशोपस्कारार्थः, यथा—
गौरीमातस्य तस्यैताः कार्त्तिकेयस्य कीर्त्तयः।