निरर्थको यथा—
अग्रशालमधिरुह्य नगस्य स्फारकण्ठकुहरो मदमत्तः।
ह्रस्वदीर्घसविसर्गघुकारान घोषयत्युषसि पाण्डुकपोतः॥ ११३॥
(२. द्रव्यम्)
उपात्तनिमित्तेनानुपात्तनिमित्तेन वा यत् श्रूयते गम्यते प्रतीयतेऽभिधीयते तद् द्रव्यम्। तदि्द्वधा— आश्रयरूपमनाश्रयरूपं च।
तत्र जात्यादिभिः प्रवृत्तिनिमित्तैर्यदाश्रीयते तदाश्रयरूपम्; यथा गौः, अश्वः, शुक्लः, एकः, प्रस्थं, पलम्, ऋजुः, पूर्वः, पाचकः, दण्डी, राजपुरुषः, चैत्र इति।
तद्विपरीतम् अनाश्रयरूपं निपाताव्ययोपसर्गगतिकर्मप्रवचनीयादीनामर्थः, यथा 'अहं च त्वं च वृत्रहन्', 'ऋते धर्मं कुतः सुखम्', '(लौहघ)नस्सुमनायते१' 'कस्त्वामूरीकरिष्यति', 'कस्तं प्रति न यास्यति', 'स्वयं पर्येतुमिच्छति'।
(३. लिङ्गम्)
लिङ्गं द्विधा, शब्दलिङ्गमर्थलिङ्गं च।
तयोरियमयमिदमित्यर्थव्यपदेशनिमित्तं शब्दसंस्कारहेतुरयमित्यर्थव्यपदेशकारणं पुमान्, 'नपुंसकस्य झलचः' (७.१.७२) इति x x x x x x
उपस्कारहेतुरिदमित्यर्थव्यपदेशकारणं नपुंसकमिति।
तदेतच्छुद्धमिश्रादिभेदात् षोढा विप्रथते— शुद्धं, मिश्रं, सङ्कीर्णम्, उपसर्जनम्, आविष्टं अव्यक्तं च।
तेष्वेकसंस्कारहेतुश्शुद्धम्, खट्वा, वृक्षः, कुण्डं, स्त्री, पुमान्, नपुंसकमिति।
संस्कारद्वयोपग्राहि मिश्रम्, मरीचिः, ऊर्मिः, अर्चि, छर्दिः, कषायः, कवाटमिति। १. 'ऋते ध..नायते' इति जो. नास्ति। ३२५२ प्रतौ, बडोदा प्रतौ, राघवेऽपि च 'सुखम्, नस्सुमनायते इति पाठः'। कोष्ठकपूर्त्तिरस्मत्कृता संस्कारत्रययोगि सङ्कीर्णम्, तटी तटः तटं, श्रृङ्खला, श्रृङ्खलः, श्रृङ्खलमिति। विशेष्यशब्दनिघ्नविशेषणरूपमुपसर्जनम्, शुक्ला शुक्लः शुक्लं, पट्वी पटुः पटि्वति।
विशेषणत्वेऽपि नियतशब्दसंस्कारार्हम् आविष्टम्, प्रकृतिः, विषयः, प्रधानं, भार्या, दाराः, कलत्रमिति।
लिङ्गनिमित्तशब्दसंस्कारानर्हम् अव्यक्तम्, पञ्ज, षट्, कति, उच्चैः x x x x।
( भाव)
विशेष्यते अवच्छिद्यते द्रव्यं येन तच्छब्दस्यार्थे प्रवृत्तिनिमित्तमर्थधर्मो विशेषणं गुणो भाव इति चाख्यायते। x x x x
तत् त्रिधा— गुणः, परिमाणं, सम्बन्ध इति। तत्र—
द्रव्ये स्वाद्युक्ते प्रत्ययजनको गुणः, जातिः, गुणः, सङ्ख्या, संस्थानमवस्थानमित्यादिः, यथा— गौः, ब्राह्मणः, पटुः, गौरः, एकः, अनेकः, हनुमान्, वासुदेवः, युवा, वृद्धः, ऋजुः, पूर्व इति।
अननुरञ्जकमा x x x x भिधेयमवच्छेदकं परिमाणं, तदध्वगौरवमूल्य— सङ्ख्यासङ्घातक्षेत्रादिभेदादनेकधा। यथा योजनं पर्वतः, पलं सुवर्णः, पुराणः कपर्दकाः, अक्षौहिणी बलम्, खारी व्रीहयः, निवर्तनं भूमिरिति।
कृत्तद्धितसमासप्रातिपदिकविशेषाणामर्थषु प्रवृत्तिनिमित्तं सम्बन्धः।
स त्रिधा— क्रियासम्बन्धो, द्रव्यसम्बन्धः, क्रियाद्रव्यसम्बन्धश्च। तत्र—
क्रियासम्बन्धो यथा— पाचक इति।
द्रव्यसम्बन्धो यथा— दण्डी, राजपुरुष इति।
क्रियाद्रव्यसम्बन्धो यथा— आक्षिकः, निष्कौशाम्बिरिति।
यदा पुनः जातिगुणपरिमाणादयश्शब्दाः प्राधान्येनाभिधीयन्ते भावप्रत्ययैर्वा प्रतिपाद्यन्ते तदैतेषां द्रव्यत्वमेव, न लिङ्गत्वम्। भावप्रत्ययो हि — (५.१.११९)
जातिगुणाज्जातिगुणे समासकृत्तद्धितात् तु सम्बन्धे।
डित्थादेः स्वे रूपे धवखदिराज्जातिसङ्घते॥ ११४॥
इति॥