Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 05

Prakāśa 5: उपाध्याद्यर्थचतुष्टयप्रकाशः

प्रकाशः 5 • उपाध्याद्यर्थचतुष्टयप्रकाशः

Prakāśa 5 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 5.1–841 • 4 Lexicon Terms • Page 7 of 29 (Verses 30 shown)
परस्मैपदतो वापि मन्यन्ते तमुपग्रहम्॥ १५॥
यथा— नाथति नाथते, शपति शपते, आह्वयति आह्वयते, प्रतिजानाति प्रतिजानीत इति। अत्र 'आशिषि नाथः' {३.१.२१ (७)}, 'शपः शपथे' 'स्पर्धायामाङः' (१.३.३०—३१), 'सम्प्रतिभ्यामनाध्याने' ह्वः (१.३.४४, ४६) ज्ञः इति आत्मनेपदम्; शेषे परस्मैपदमित्यर्थभेदाः। एवं —
मुण्डो भीषयते, कुञ्चिकयैनं भाययति, जटिलो विस्मापयते, मत्यैनं विस्मापयति। श्येनो वर्तिकामुल्लापयते, कस्त्वामुल्लापयति, संप्रवदन्ते ग्राग्याः, संप्रवदन्ति शकुनय इति। अत्र 'भीस्म्योर्हेतुभये', 'लियः सम्माननशालिनी— करणयोश्‍च', 'व्यक्तवाचां समुच्‍चारणे' वदः (इति) आत्मनेपदम्, शेषे परस्मैपदमित्यर्थभेदः। एवमन्यदप्यूहनीयम्।
ननु च 'य आत्मनेपदाद् भेदः क्‍वचिदर्थस्य गम्यत' इति, अत्र कवचिद्‍ग्रहणं किमर्थम् ?
उच्यते परस्मैपदात्मनेपदोभयपदिनामात्मनेपदपरस्मैपदोभयपदयोगः षट्‍प्रकारो भवति— 'प्रकृतिनिमित्तः, प्रकृत्यर्थनिमित्तः, प्रत्ययनिमित्तः, प्रत्ययार्थनिमित्तः, उपस्कारनिमित्तः, उपस्कारार्थनिमित्तश्‍च। तत्रार्थनिमित्तेषु यथायोगमर्थावगतिहेतुत्वं विद्यते। शेषेषु तु न विद्यते इति 'क्‍वचिद्—'ग्रहणेन ज्ञापयति। तत्र—
आत्मनेपदयोगः प्रकृतिनिमित्तो यथा—'अनुदात्तङित आत्मनेपदम्' (१.३.१२); 'सनः' 'स्मृदृशिभ्याम्', एधते, च्यवते, सुस्मूर्षते, दिदृक्षत इति।
प्रकृत्यर्थनिमित्तो यथा— 'प्रकाशनस्थेयाख्ययोश्‍च' (१.३.२३), 'भुजोऽनवने' (१.३.६६), 'गृधिवञ्च्योः प्रलम्भने' (१.३.६९), 'कर्मव्यतीहारे' (१.३.१४) तिष्ठते, भुङ्क्ते, गन्धयते, व्यतिलुनीत इति।
प्रत्ययनिमित्तो यथा—'शदेश्शितः' (१.३.६०), 'म्रियतेर्लुङ्‍‌लिङोश्‍च' (१.३.६१), शीयते, म्रियते, अमृत, मृषीष्टेति।
प्रत्ययार्थनिमित्तो यथा— 'भावकर्मणोरात्मनेपदम्' (१.३.१३) कर्मकर्तरि फलवत्कर्तरि च, आस्यते, पच्यते, विपच्यते, पचत इति।
उपस्कारनिमित्तो यथा— 'विपराभ्यां जेः' (१.३.१९), 'समवप्रविभ्यः स्थः' (१.३.२२), 'समस्तृतीयायुक्तात्' (१.३.५४), 'मिथ्योपपदात् त्कृञोऽभ्यासे' (१.३.७१), विजयते, पराजयते, संतिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते, अश्वेन सञ्चरते, पदं मिथ्या कारयते।
उपस्कारार्थनिमित्तो यथा— 'वेः पादविहरणे' (१.३.४१), 'आङो ज्योतिरुद्गमने', 'उपान्मन्त्रकरणे' (१.३.२५), 'दाणश्‍च सा चेच्‍चतुर्थ्यर्थे' (१.३.५५), विक्रमते राजा, आक्रमन्ते ज्योतीषि, सावित्र्योपतिष्ठते, दास्या संप्रयच्छत इति।
प्रकृतिनिमित्तः परस्मैपदयोगे यथा— 'शेषात्कर्तरि परस्मैपदम्' (१.३.७८) भवति, व्यतिहसन्ति, व्यतिहरन्ति परस्परस्य व्यतिलुनन्ति।*
प्रत्ययार्थनिमित्तो यथा— 'कुषिरजोः प्राचां श्यन् परस्मैपदं च' (३.१.९०) 'शेषात् कर्तरि परस्मैपदम्'। रज्यति वस्त्रं स्वयमेव, कुष्यति पादस्स्वयमेव, रजति वस्त्रम्, कुष्णाति पादमिति।
उपस्कारनिमित्तो यथा— 'अनुपराभ्यां कृञः' (१.३.७९), 'इतरेतरान्योन्योप— पदाच्‍च' (१.३.१६), अनुकरोति, पराकरोति, इतरेतरस्य व्यतिलुनन्ति, अन्योन्यस्य व्यतिलुनन्तीति।
उपस्कारार्थनिमित्तो यथा— 'समोऽकूजने' (१.३.२१वा.१) 'आङो दोऽनास्य— विहरणे' (१.३.२०), 'उदोऽनूर्ध्वकर्मणि' (१.३.२४), प्रादेरजाद्यन्तराद्युजेरयज्ञापात्रेषु, संक्रीडन्ति शकटानि, व्याघ्रो मुखं व्याददाति, आसनादुत्तिष्ठति, यज्ञपात्राणि प्रयुनक्तीति।
उभयपदप्रयोगे प्रकृतिनिमित्तो यथा— 'वा क्यषः' (१.३.९०), अप्रादेर्वा, लोहितायति लोहितायते, क्रामति क्रमत इति।
प्रकृत्यर्थनिमित्तो यथा—'विभाषाकर्मकात्' (१.३.८५), 'विभाषा विप्रलापे' (१.३.५०), उपरमति उपरमते, संप्रवदन्ति मौहूर्ताः, संप्रवदन्ते मौहूर्ता इति।
प्रत्ययनिमित्तो यथा—'द्युद्‌भ्यो लुङि' (१.३.९१), 'वृद्‍भ्यः स्यसनोः' (१.३.९२), अद्युतत् अद्योतिष्ट, वर्त्स्यति, वर्तिष्यत इति।
प्रत्ययार्थनिमित्तो यथा— रज्यति रज्यते, कुष्यति कुष्यते, 'कुषिरजोः प्राचां श्यन्', 'परस्मैपदं च कर्मकर्तरि' इति।
उपस्कारनिमित्तो यथा— 'उपसर्गादस्यत्यूह्योर्वा' (१.३.२९ वा. ३), उदस्यति उदस्यते, समूहति समूहत इति।
उपस्कारार्थनिमित्तो यथा 'वा लिप्सायाम्' (१.३.२५ वा. २), 'विभाषोपपदेन प्रतीयमाने' (१.३.७७); भिक्षुको ब्राह्मणकुलमुपतिष्ठति उपतिष्ठते, ब्राह्मणस्स्वं यज्ञं यजति, यजत इति।
* परस्मैपदयोगे प्रकृत्यर्थनिमित्तः प्रत्ययनिमित्तश्‍चेति भेदाविमौ न स्पृष्टौ।
एवमन्येऽपि हेतुलक्षणाभीक्ष्ण्यभृशार्थगर्हाकौटिल्यलसाकल्यपूर्वकालतादर्थ्यादयः प्रकृत्यर्थोपाधिविशेषा वेदितव्याः, यथा— अधीयानो वसति, पचन्नास्ते, पुनः पुनः पठति पापठ्यते, पुनः पुनः पचति पापच्यते, गर्हितं दहति दन्दह्यते, कुटिलं क्रामति चङ्क्रम्यते, कन्यादर्शं वरयति, भुक्त्वा व्रजति, भोक्तुं व्रजति इति। एवमेते धातुरूपायाः प्रकृतेरर्थोपाधयः॥
प्रत्ययरूपायाः स्वप्रत्ययार्थोपाधय एवोपाधयो भवन्ति।
प्रातिपदिकरूपायास्तु स्वार्थद्रव्यलिङ्गसङ्ख्यापरिमाणकारकसंबन्धसंबोधनसहार्थ— तादर्थ्यहेतुलक्षणादय उपाधयो विद्यन्ते। ते तु प्रत्ययार्थोपस्कारार्थप्रातिपदिका— र्थेष्वनन्तरमेव वर्णयिष्यन्त इति नेह प्रतन्यन्ते।
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →