अथ प्रत्ययार्थोपाधिः तत्र कारकोपाधिषु पुरुष उक्तः; सङ्ख्या त्वग्रतोऽभिधास्यते। अपरेऽपि चास्य विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनप्रैषातिसर्गप्राप्तकालशक्त्यर्ह— गर्हादयः उपाधयो भवन्ति। तद्यथा— अग्निहोत्रं जुहुयात्, इह भवान् भुञ्जीत, इह भवानानासीत्, भवान्माणवकमध्यापयेत्, किं नु खलु व्याकरणमधीयीय इतः उत छन्दः, लभेयाहं भिक्षाम्; आशंसनमपि प्रार्थनमेवः चिरं जीव्याः, ग्रामं गच्छ, गच्छानुज्ञातोऽसि, कुरु कटं प्राप्तस्ते कालः कटकरणे, भवान् खलु शत्रुं हन्यात्, तत्रभवान् खलु भारं वहेत्, कथं नाम तत्रभवान् वृषलं याजयेदिति।
एवमन्येऽपि तच्छीलतद्धर्मतत्साधुकारिहेत्वानुलोम्यशक्तिवयोवचनाकृच्छ्रानुद्यमन— शिल्पिलक्षणलिङ्गादयोऽवगन्तव्याः। यथा— वदिता जनापवादान्, मुण्डयितारः श्राविष्ठायनाः वधूमूढाम्, कन्यामलङ्करिष्णुः, यशस्करी विद्या, आज्ञाकरी भार्या, हस्तिघ्नो भटः, कवचहरः क्षत्रियकुमारः, धारयन्नुपनिषदम्, अंशहरस्सुतः, नर्तकी वेश्या, जायाघ्नस्तिलकः, व्यासस्य वचनं, पाणिनेरुक्तिः, कालिदासस्य प्रबन्ध इति।
अथोभयोपाधिः। सोऽपि संज्ञाजातिप्रभासपरिमाणद्यूताभ्रेषभाषाच्छन्दोमन्त्र— ब्राह्मणाशीरुत्क्रोशादिभेदादनन्तप्रकारः। तद्यथा 'क्तिच्क्तौ च संज्ञायाम्' (३.३.१७४), भद्रभूतिर्देवदत्त इति, हस्ता पुरोढा (हस्ती पुरुषः?) इति। 'द्वितीया ब्राह्मणे' (२.३.६०) गामस्य तदहस्सभायां दीव्येयुः, पष्ठौहीं दीव्यतीति; आशिषि वुन्, जीवतात् जीवकः, नन्दतात् नन्दक इति। 'माङ्याक्रोशे' (३.२.१२६ वा.६), 'आक्रोशे नञ्यनिः' (३.३.११२),
मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति।
तस्याजननिरेवास्तु जननीक्लेशकारिणः॥ १६॥
माघ.२.४५ इति।
एवमन्येऽप्यसूयासंमतिकोषकुत्सनभर्त्सनाबाधप्रकाराकृच्छ्रपर्यायार्हणोत्पत्ति— प्रभृतयोऽवगन्तव्याः। तेषु —
असूया यथा— माणवक ३ माणवक, अभिरूपक३ अभिरूपक, रिक्तं ते आभिरूप्यम्।
संमतिः यथा— माणवक ३ माणवक, अभिरूपक३ अभिरूपक शोभनः खल्वसि।
कोपो यथा— माणवक ३ माणवक, अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म।
कुत्सनं यथा— शक्तिके ३ शक्तिके, यष्टिके ३ यष्टिके रिक्ता ते शक्तिः।
भर्त्सनं यथा— चोर ३ चोर, वृषल ३ वृषल घातयिष्यामि त्वाम्।
आबाधो यथा— गतगता नष्टनष्टा प्रियाया गमनादिना।
पीड्यमानः कश्चिदेवं प्रयुङ्क्ते॥
प्रकारो यथा— पटुपटु, भीतभीत, परिपूर्णगुणेन न्यूनगुणस्योपमाने सत्येवं भवति।
अकृच्छ्रं यथा— सुखसुखेन ददाति, प्रियप्रियेण ददाति, अपीड्यमानो ददातीत्यर्थः।
पर्यायादयो यथा— भवतश्शायिका, अर्हति भवानिक्षुभक्षिकाम्, इक्षुभक्षिकां मे धारयसि, उदपादीक्षुभक्षिका इति।
सर्वोऽपि चायमुपाधिप्रपञ्चस्त्रिधैवाख्यायते धर्म्युपाधिः, धर्मोपाधिः, प्रकीर्णोपाधिश्च।
तत्र कृञः स्तम्बशकृद्भ्यां व्रीहिवत्सयोरिन्, स्तम्बकर्णयो रमिजपोः (३.२.१३) हस्तिसूचकयोरित्यादि (३.२.१३ वा.) धर्म्युपाधिः यथा—
व्रीहिस्स्तम्बकरिः क्षेत्रे गृहे वत्सश्शकृत्करिः।
जनः कर्णेजपो राज्ये मत्तस्स्तम्बेरमो वने॥ १७॥
(३.२.२४)
'प्रजने सर्तेः' अप् (३.३.७१), 'समुदोरजः पशुषु' (३.३.६९) धर्मोपाधिः यथा—
समजस्स्याद् गवां गोभिरुक्ष्णामुदज उक्षभिः।
भवत्यपसरे यस्यास्सैषा मे गोमतल्लिका॥ १८॥
'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु' (२.३.१७), 'षष्ठी चानादरे' (२.३.३८), अधिके भावलक्षणे इति प्रकीर्णोपाधिः यथा—
मन्यते न तृणायापि (सर्वस)वं पश्यतोहरः।
मिषत्सु लोकपालेषु हविः पिबति सोऽध्वरे॥ १९॥
(हव.)
(६. प्रधानम्)