Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 05

Prakāśa 5: उपाध्याद्यर्थचतुष्टयप्रकाशः

प्रकाशः 5 • उपाध्याद्यर्थचतुष्टयप्रकाशः

Prakāśa 5 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 5.1–841 • 4 Lexicon Terms • Page 25 of 29 (Verses 30 shown)
कथं तर्हि 'अधिपरी अनर्थकौ' (१.४.१३), 'सुः पूजायाम्' (१.४.९४), 'अतिरतिक्रमेण च' (१.४.९५), 'अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्‍चयेषु' (१.४.९६) इत्यमीषां कर्मप्रवचनीयात्वम् ? कश्‍चिदेभिस्सम्बन्धोऽवच्छिद्यते।
सत्यमेतत्। किन्तु कार्यार्थमेषां अतद्धर्माणामपि शास्त्रे वाचनिक— कर्मप्रवचनीयत्वमभिहितमिति।
ननु च जात्यादिप्रवृत्तिनिमित्तोपग्राहिणो वृक्षादयः सत्त्ववचनाः, तद्विपरीताश्‍चादयो असत्त्ववचना इत्युच्यते। न च जातिर्नाम प्रत्यक्षादिसमधिगम्यं किञ्चित् प्रमेयमस्ति। तथा हि — असौ न प्रत्यक्षा, प्रत्यक्षस्य पूर्वापराननुस्यूतस्वलक्षणत्वात्, जातेश्‍च पूर्वापरानुस्यूतरूपत्वात् तदाह—
समानवृत्तिता नाम सामान्यस्य निजं वपुः।
कथं स्पृशति सापेक्षमनपेक्षाक्षजामिति॥ १२०॥
तत्पृष्ठभाविनस्तु विकल्पा स्वभावेनावस्तुविषयत्वान्न सामान्यसिद्ध‍यै प्रभवन्ति। नाप्यनुमानं शब्दो वा सामान्यमवस्थापयति। तयोरपि विकल्पविषयत्वेन वस्तुव्ययवस्थापक— त्वायोगात्। वस्तुप्राप्‍तिस्तु भेदानध्यवसायनिमित्तवस्त्वध्यवसायाद् भविष्यति।
इतश्‍च न व्यक्तिव्यतिरिक्तं सामान्यं कुवलयामलकबिल्वादिवद् भेदेनानुपलम्भाद्, घटपटादिवच्‍च देशभेदाग्रहणाद्, व्यक्‍त्यग्रहे घटपटादिवदेव तदनुपलब्धेः। व्यक्तिवृत्तित्वात् सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेन्न, वृत्तिनुपपत्तेः। किं प्रतिपिण्डं कार्त्स्‍न्येन वर्तते जातिरुतैकदेशेन ?
पिण्डे सामान्यमेकत्र यदि कार्त्स्‍न्येन वर्तते।
तत्रैवास्य पदार्थत्वं न स्यात् पिण्डान्तरे ग्रहः॥ १२१॥
एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित्।
समग्राऽस्तीति गोबुद्धिः प्रतिपिण्डं कथं भवेत्॥ १२२॥
न चास्य निरवयवत्वादेकदेशा विद्यन्ते। न चैकपिण्डे समाप्‍त्या वर्तमाना पिण्डान्तरेऽपि समाप्‍त्यैव वर्तितुमर्हति। समाप्‍तस्य न पुनरुत्पत्तिं विना समाप्‍त्यन्तरानुपपत्तेः। न च तथाभूता काचिद् वृत्तिरुपलभ्यते। न च समवायात्मिका वृत्तिः। स ह्ययुतसिद्घानां भवति। अयुतसिद्धिस्सम्बन्धश्‍चेति विप्रतिषिद्धम्। द्रव्यगुणयोः अपृथक्‍सिद्धयोरपि सम्बन्धदर्शनान्नैवमिति चेन्न। तत्रापि गुणव्यतिरिक्तस्य गुणिनो भेदेनासिद्धेः। अवयवावयविनोरपि पृथक्‍सिद्धेरभावान्न सम्बन्धः। नापि रूपरूपिलक्षणस्सम्बन्धो भविष्यतीति वक्तव्यम्, रूपार्थस्य निरूपयितुमशक्‍यत्वात्। किमयं रूपशब्दश्शुक्‍लादिगुणवचनः स्वभाववचनो वा। शुक्‍लादिवचनत्वे नीरूपाणां पवनमनः— प्रभृतीनां द्रव्याणां सामान्यशून्यता स्यात्। आकारवचनत्वेऽप्यवयवसन्निवेशरहितानां तेषामेव सामान्यवत्ता न प्राप्‍नोति। स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत्।
अवभाति हि भेदेन स्वभावो न स्वभाविनः।
शब्दातिरिक्ततैवेयं न तु वस्त्वतिरिक्तता॥ १२३॥
सर्वसर्वगतापि (ता वा) स्यात् पिण्डसर्वगतापि वा।
सर्वसर्वगतत्वेऽस्याः कर्कादावपि गोमतिः॥ १२४॥
अश्वधीश्शाबलेयादावुष्ट्रबुद्धिर्गजादिषु।
पदार्थसङ्करश्‍चैवमत्यन्ताय प्रसज्यते॥ १२५॥
अथापि व्यक्तिसामर्थ्यनियमान्नैष सङ्करः।
न हि कर्कादिपिण्डानां गोत्वादिव्यक्तिकौशलम्॥ १२६॥
मैवं खण्डाद्यभिव्यक्तमपि गोत्वमनंशकम्।
सर्वत्रैव प्रतीयेत न वा सर्वगतं भवेत्॥ १२७॥
तदंशग्रहणे तस्य न हि कश्‍चिन्नियामकः।
दीपवद् व्यञ्जक; पिण्डो न तु तत्पिण्डवृत्ति तत्॥ १२८॥
सर्वत्रागृह्यमाणत्वे सर्वत्रास्तीति को वदेत्।
सर्वसर्वगतं तस्मात् न गोत्वमुपपद्यते॥ १२९॥
पिण्डसर्वगतत्वे तु काममेतददूषणम्।
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →