Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 05

Prakāśa 5: उपाध्याद्यर्थचतुष्टयप्रकाशः

प्रकाशः 5 • उपाध्याद्यर्थचतुष्टयप्रकाशः

Prakāśa 5 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 5.1–841 • 4 Lexicon Terms • Page 2 of 29 (Verses 30 shown)
उत्तरे सपरिस्पन्दा यथा— कूजतीत्युक्ते (पिक इति गम्यते), (हेषत इत्युक्ते) अश्‍व इति गम्यत इति।
(८. भावकर्तृकाः) न्यग्भवतिकरोतयो न्यगस्तिकरोतयो वा भावकर्तृकाः। तेषु— पूर्वे अपरिस्पन्दा यथा —चोरस्य रुजति, चोरस्यामयति, चोरं ज्वरयति, चोरं संतापयतीति।
उत्तरे सपरिस्पन्दा यथा— भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति।
(९. कर्मकर्तृकाः) उदस्तिन्यक्करोतय उद्भवतिन्यक्करोतयो वा कर्मकर्तृकाः। तेषु—
पू्र्वे अपरिस्पन्दा यथा— दुग्धे गौस्स्वयमेव, प्रस्‍नुते गौस्स्वयमेव, भूषयते कन्या स्वयमेवेति।
उत्तरे सपरिस्पन्दा यथा—अवकिरते हस्ती स्वयमेव, नमते दण्डः स्वयमेव, उच्छ्रयते दण्डस्स्वयमेव, आरोहयते हस्ती स्वयमेवेति।
(१०. कर्तृस्थक्रियाः) उदस्तिकरोतयः उद्भवतिकरोतयो वा कर्तृस्थक्रियाः। तेषु—
पूर्वे अपरिस्पन्दा यथा—अर्हति पूजां, जानाति वर्णं, पश्‍यति रूपं, शृणोति शब्दमिति। उत्तरे सपरिस्पन्दा यथा— गच्छति, ग्रामम्, आरोहयत्यश्वम् इति।
(११. कर्मस्थक्रियाः) न्यग्भवत्युत्करोतयो न्यगस्त्युत्करोतयो वा कर्मस्थक्रियाः। तेषु—
पूर्वे अपरिस्पन्दा यथा— दुनोति शत्रुं, धिनोति मित्रं, मदयति सुहृदं, सुखयति सखायमिति।
उत्तरे सपरिस्पन्दा यथा— पचत्योदनं, भिनत्ति कुसूलं, संक्ष्णुते शस्त्रं, तक्ष्णोति यूपमिति।
(१२. उभयस्थक्रियाः) न्यग्भवत्युदस्तिकरोतयो न्यगस्त्युद्भवतिकरोतयो वा उभयस्थक्रियाः। तेषु—
पूर्वे अपरिस्पन्दा यथा— लभते पूजां, प्राप्‍नोति धर्मम् . . . . . . . . .।
उत्तरे सपरिस्पन्दा यथा— भुङ्क्त ओदनम्, अधीते स्वाध्यायं, तप्यते तपः, साधयति स्वर्गमिति।
ननु च भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति नैतावस्तिभवत्यर्थौ, अपि तु साक्षादस्तिभवती। तौ चानुपहितक्रियाभिधायकाविति नोपाधी भवितुमर्हतः। उच्यते— 'अस भुवि', 'भू सत्तायाम्' इति धातुपाठादनु— प्रयोगवर्जमार्धधातुकेऽस्तेर्भूविधानात् सङ्कर एवेति विज्ञायते। एवमपि करोत्यर्थानुप्रवेशो दुरुपपादः। सोऽपि कर्तृत्वान्यथानुपपत्तेरुपपत्स्यते।
ननु च भवति पक्ष्यति, भवत्यपाक्षीदित्ययं लट्‌प्रयोग एव। अस्ति गच्छामो वयमिति च अस्तिप्रयोगोऽपि भावकर्तृकेषु दृश्‍यते।
नैवम्; नास्माभिरस्तिभवति भावकर्तृकावेवोच्येते, अपि तु अस्तिभवति— कर्तारोऽस्त्यादयः पचत्यादयश्‍च। ते हि रुजत्यादिवदुपाधिपरा अपि अस्तौ कर्तारो भवन्ति। एतावाँस्तु विशेषः, रुजादीनां कर्तृत्वं तत्परेणैव लकारेणोच्यते, पचादीनां च भवत्यस्तिपरेणेति।
यथा च धात्वर्थः क्रियोपाधिरेवं कालोऽपि। यदुक्तम्—
क्रियोपाधिश्‍च सन् भूतभविष्यद्‌वर्तमानताः।१
परापरविभागार्थास्स शक्तीः प्रतिपद्यते॥ १॥
१. वाक्‍यपदीये ३.९.३७ इति करिकाया पूर्वार्द्धम्।
स भूतादिभेदा द्वादशधा। तद्यथा—
भूतः, भूतानद्यतनः, भविष्यत्, भविष्यदनद्यतनः, वर्तमानः, वर्तमानानद्यतनः, परोक्षः, अतिपन्नः, अव्यक्तः, सङ्कीर्णः, प्रकीर्णः, विप्रकीर्ण इति।
(१. भूतः—६) लुङादिविषयोऽप्यतीतमात्रं भूतः।
स षोढा— भूतः, प्रकर्षभूतः, भूतानद्यतनः, अभिमानाद्यतनः, प्रबन्धाद्यतनः, सामीप्याद्यतन इति।
तेष्वनिर्धारितविशेषो भूतः, यथा— अकार्षीत्, निषसाद, उवास, शुश्राव, अपक्त, पक्तवानिति।
शब्दान्तरावगतप्रकर्षादनवेक्षितानद्यतनपरोक्षादिप्रत्ययः प्रकर्षभूतः, यथा— अवात्सुरिह पुरा छात्राः।
विवक्षितान्यावधिः भूतानद्यतनः, यथा— अगमान घोषात्।
रात्रिशेषे जागरणसंततौ अभिमानानद्यतनः, यथा अमुत्रावात्सम्, सकलां रात्रिं जागरितः रात्रेरप्रभातत्वादद्यतनिमं कालं मन्यते।
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →