व्यवहितं द्विधा, विशेष्यरूपं विशेषणरूपं च।
विशेष्यरूपं यथा— द्विमयमुदश्विद् यवानाम्, द्विमया यवा उदश्वितः (काशिका ५.२.४७)।
विशेषणरूपं यथा— 'पञ्चमो मासोऽस्य जातस्य पञ्चमी बालकः (काशिका ५.२.१.३०), षष्ठं रूपग्रन्थग्रहणमस्य षट्को वटुः।
(३) गुणोऽपि त्रिधा— आश्रितः प्रवृत्तिनिमित्तमुपाधिश्च। तेषु—
आश्रितो द्विधा— अभिन्नरूपो भिन्नरूपश्च। तयोः
अभिन्नरूपो यथा—भिक्षाणां समूहो भैक्षम्, काकोलूकस्य वैरं काकोलूकिका।
भिन्नरूपो यथा— ऋत्विजां कर्मार्त्विज्यम्, पीलूनां पाकः पीलुकण इति।
प्रवृत्तिनिमित्तं द्विधा— अनुरञ्जकमननुरञ्जकं च। तत्र
अनुरञ्जकं जात्यादि, यथा—ब्राह्मणस्य भावः ब्राह्मण्यम्, ऋजोर्भाव आर्जवमिति।
अननुरञ्जकं सम्बन्धादि, यथा—दण्डिनो भावो दण्डित्वम्, पाचकस्य भावः पाचकतेति।
प्रकृत्यर्थप्रत्ययार्थयोर्विशेषणम् उपाधिः। स द्विधा— व्यस्तस्समस्तश्च।
व्यस्तः प्रकृत्यर्थे यथा— शिवो देवताऽस्येति शैवं, लवणं पण्यमस्येति लावणिकः।
प्रत्ययार्थे यथा— गार्गिकया श्लाघते, काठिकयाऽधिक्षिपति। अत्र देवतापण्यश्लाघाधिक्षेपा उपाधयः।
समस्तो यथा— दण्डः प्रहरणमस्यां क्रीडायां दाण्डा। अत्र दण्डशब्दात् 'तदस्याम्' (४.२.५७) इत्यधिकरणे प्रत्ययो विहितो दण्डस्थं प्रहरणत्वम्, अधिकरणत्वं च क्रीडात्वं प्रत्याययति। एवं ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम्। अत्र ह्योगोशब्दाद्विकारे प्रत्ययो विहितः, प्रकृत्यर्थोपाधिं दोहं प्रत्ययार्थो च संज्ञां प्रत्याययमिति।
(३. कारकम्)
कारकं त्रिधा (१)सक्रियं, (२) भिन्नाक्रियम् (३) अभिन्नक्रियं च। तेषु—
(१) सक्रियं त्रिधा— कर्तृरूपं, कर्मरूपम् अनुस्यूतं च।
कर्तृरूपं द्विधा, क्रियाविशेषस्थं कारकविशेषस्थं च। तयोः —
क्रियाविशेषस्थं सुस्नातं पृच्छति सौस्नातिकः, एवं सौखशायनिकः; प्रभूतमाह प्राभूतिकः; एवं माशब्दिकः, प्रतीपं वर्तते प्रातीपिकः, प्रतिकूलं चरति प्रातिकूलिक इति।
कारकविशेषस्थं यथा— व्याकरणं वेत्त्यधीते वा वैयाकरणः, समां समां विजायते समांसमीना, अक्षैर्दीव्यत्याक्षिकः, संतापाय प्रभवति सान्तापिकः, पितुरागतं पित्र्यम्, समानोदरे शयितः सोदर्य इति।
कर्मरुप द्विधा, सजातीयस्थमसजातीयस्थं च।
सजातीयस्थं यथा— अयानयं नेयः अयानयीनः शारः, मासं भृतो मासिको भृत्यः, वर्षमधीष्टो वार्षिक उपाध्यायः, पक्षं लक्षः(?) पाक्षिको निबन्धः, षण्मासं क्रीतः षाण्मासिको दासः, संवत्सरं कृतस्सांवत्सरिकोऽभ्यास इति।
असजातीयस्थं यथा— वामदेवेन दृष्टं वामदेव्यं साम, लाक्षया रक्तं वस्त्रं लाक्षिकं, देवाय देयं दैव्यं हविः, तन्त्रादचिरापहृतः तन्त्रकः पटः, द्वारे नियुक्तो दौवारिकः पुमान्, चतुर्दश्यां दृश्यते चातुर्दश्यं रक्ष इति।
अर्थान्तरनुबन्धमनुस्यूतम्। तदि्द्वधा— क्रियानुस्यूतं कारकानुस्यूतं च। तयोः—
क्रियानुस्यूतं यथा— सीतान्वेषणमधिकृत्य कृतो ग्रन्थः 'सीतान्वेषणीयः', एवं 'किरातार्जुनीयः', 'वाक्यपदीयः', पौषी पौर्णमासी अस्मिन् मासे भवति पौषः, एवमाग्रहायणिकः, आश्वत्थिक इति।
कारकानुस्यूतं यथा— तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाश्छात्राः, एवं वारतन्तवीयाः, छागलेयिनः, ऐतरेयिणः, तथा पाराशरिणो भिक्षवः, शैलालिनो नटाः।
(२) भिन्नक्रियं त्रिधा लक्षितक्रियमपेक्षितक्रियमनुषक्तक्रियं च। तेषु—
लक्षितक्रियं द्विधा— कर्तृस्थं कर्मस्थं च। तयोः
कर्तृस्थं यथा— मुद्गा भवन्त्यस्मान्मौद्गीनं क्षेत्रम्, दण्डिनः सन्त्यस्यां दण्डिमती शाला, वरणाः सन्ति अस्मिन् वरणा नगरमिति।
कर्मस्थं यथा—श्राद्धमनेनाद्य भुक्तं श्राद्धिकः, अग्रभोजनमस्मै दीयते आग्रभोजनिकः, पदमस्मिन् दृश्यं पद्यः कर्दम इति।