अथ
श्रृङ्गारप्रकाशे चतुर्थः प्रकाशः
क्रियाद्यर्थचतुष्टयप्रकाशो नाम
(१. क्रिया)
तत्र प्रकृत्यादिशब्दप्रत्याय्याः क्रियाकालकारकपुरुषोपाधिप्रधानोपस्कारार्थे— प्रातिपदिकार्थविभक्त्यर्थवृत्त्यर्थपदार्थवाक्यार्थरूपा द्वादश भेदाः। तेषु कारकाणां प्रवृत्तिविशेषः क्रिया, तां धात्वर्थ इत्यमनन्ति (मभा. ३. १. ३)।
धातवश्च त्रेधा— अस्त्यर्थाः, भवत्यर्थाः, करोत्यर्थाश्च। तत्र
येषां कर्तार उदासते ते अस्त्यर्थाः; यथा— अस्ति विद्यते ध्रियते तिष्ठति आस्ते वर्तते इत्यादि।
येषां विकुर्वते ते भवत्यर्थाः; यथा— भवति संजायते वर्धते विपरिणमते अपक्षीयते विनश्यति इत्यादि।
येषां प्रयुञ्जते ते करोत्यर्थाः; यथा— करोति विधत्ते जनयति निर्वर्तयति साधयति उत्पादयति। तत्र
अस्ति—करोति—भवतीनां साम्यावस्थानं निर्विकारमनाद्यन्तं शब्दब्रह्मेत्याचक्षते। तथैवंविधानेकार्थवाचिना भवतिनैवोमिति व्यपदिशन्ति। तस्य यदा अस्तिताहेतुरविद्या— निबन्धनोऽर्थविपरिणामरूपः प्रथमविकारो, अस्तिरुदयते तदा। अस्तेर्नास्तिप्रतियोगित्वादस्ति नास्ति वेत्येकमेवैतदुभयथापि प्रथामयते। यन्नास्ति तद् भवामीति चापेक्षायां, तद्भवतोऽस्य भवति—नामा द्वितीयविकारः परिप्लवते। ततो यद्भवति तस्य तस्य चान्यद्—भवतो मिथ्याभिनिवेशान्मिथः प्रयोज्यप्रयोजकत्वं (सं) भावयति—संज्ञकः तृतीयविकारः करोतिरित्याख्यायते (वाप. ३.३४–३६ जाति)।
एवं चास्मितापेक्षाभिनिवेशैर्दूरविप्रसृतायामविद्यायां एषामपि विशेषाविशेषतो दूरीकृता विद्याः विद्यति—जनि—पचादयः प्रादुर्भवन्ति। तदाह— 'कृभ्वस्तयः क्रियासामान्य— वचनाः क्रियाविशेषवचनाः पचादय' (मभा. ३.३.९८) इति। तेऽमी सर्वेऽपि धात्वर्थभेदाः संभेदतो मिथस्सङ्ख्यानमतिवर्तन्ते, न तु कृभ्वस्तिरूपताम्।
ननु च धात्वर्थः क्रिया; स च कारकाणां प्रवृत्तिविशेषः। कारकेषु च स्वतन्त्रः कर्ता, कर्तुरीप्सिततमं कर्म, साधकतमं करणम्, आधारोऽधिकरणं, कर्मणा यमभिप्रैति स संप्रदानं, ध्रुवमपायेऽपादानं, तेभ्योऽन्यस्तदविवक्षा वा शेषः। कर्तुः प्रयोजको हेतुरिति कर्त्रादिभ्यो व्यतिरिक्तमर्थान्तरं नोपलभ्यते, यत् क्रियेति प्रतीयते।
(क्रियासिद्धिः)
उच्यते— अस्ति क्रिया। किन्तु कर्त्रादिभ्यः पृथगाख्यातुमशक्यम्, अनापन्नसत्त्व— भावात्, अनिर्लुठितगर्भवत् (मभा. १.३.१); यथा गर्भोऽनापन्नसत्त्वभावः कललावस्थाया— माशयतः पृथगाख्यातुं न शक्यते, तथा क्रियापि साधनेभ्यस्साध्यावस्थायाम्। तद्यथा— ज्योतिः प्रकाशते, शब्दो ध्वनति इति।
कथं तर्हि अस्ति ज्ञायते कारकसन्निधानेऽपि पचतीति?
प्रख्योपाख्ययोर्भावाभावाभ्याम्।
१. इह खलु यत्सन्निधाने यस्य भावाभावौ, तस्य ततोऽन्यनिमित्तापेक्षित्वं दृष्टम्। यथा अग्निघटयोस्सन्निधाने भवतामभवतां च तत्संयोगापेक्षित्वं पाकजानाम्। कर्त्रादिसन्नि— धाने च कदाचित् पचतीत्येतद्भवति, कदाचिन्न पचतीति दृश्यते। तेन मन्यामहे नूनमस्ति शक्तिशक्तिमद्भयोऽन्यश्शक्तिर्धर्मो यद्भावादिमे प्रख्योपाख्ये प्रवर्तेते, यदभावाच्च न प्रवर्तेते इति सिद्धमस्तित्वं क्रियायाः।
२. इथश्चास्ति क्रिया, साध्यमन्तरेण साधनानुपपत्तेः। इह खलु कर्त्रादीनां साधनव्युपदेशो दृश्यते, स च साध्यमन्तरेणानुपपन्नः; यच्च साध्यं सा क्रिया। तदाह— संहृत्य कारकैर्य एकोऽर्थोऽभिनिर्वर्त्यते सा क्रिया। क्रियानिमित्तं कारकमिति। तथा च क्रियासु स्वेच्छया कारकादीनि यः प्रयुङ्क्ते न तु तैः प्रयुज्यते, स कर्ता, कर्तुः क्रिययाऽनन्यया यदाप्यते तत्कर्म, क्रियासिद्धौ साधकतमत्वेन यदव्यवहितं व्याप्रियते तत् करणम्, कर्त्रा कर्मणा वा व्यवहितः क्रियाधारोऽधिकरणम्, क्रियाकार्यत्वेनावधारितं कर्मणा संयोगं यदनुभवति तत्संप्रदानम्, कर्त्रा कर्मणा वा क्रियाजन्यमेव ध्रौव्येण यद्विभागमवगाहते तदपादानम्, श्रूयमाणाश्रूयमाणक्रियापदः क्रियाकृतः कारकाणामकारकाणां च संबन्धविशेषः स शेषः (वाप. ३.७.१५६)। कुर्वन्तमेवाज्ञा— प्रदानादिना यः क्रियायां नियुङ्क्ते, सः तत्प्रयोजको हेतुः कर्ता च भवति। एवं च यथा काष्ठादयो लाक्षादिकमपेक्षमाणा एवं मिथस्संबन्धयोग्यतामनुभवन्ति तथा द्रव्याण्यपि क्रियापेक्षीण्येव परस्परसंबन्धाय प्रभवन्तीति क्रियामन्तरेण जगतश्चित्रकर्मण इव मिथस्संयोगो वियोगश्च न स्यात्। तदुक्तं — यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा ननं क्रियेति (मभा. १.३.१)।
(क्रिया न कारकम्)
अस्तु नाम क्रिया, कारकेभ्यस्तु तस्याः कथं व्यतिरेकः ?
न च भवन्तोऽपि क्रियाकारकोयोर्व्यतिरेकं न मन्यन्ते, तद्यथा चोरस्य रुजति, चोरस्यामयति इति।
उच्यते व्यतिरिक्तैव कारकेभ्यः क्रिया,
१. अनेकस्यैकव्यपदेशनिमित्तत्वात्। इह यद् यस्यानेकव्यपदेशनिमित्तं तत्ततोऽन्येति, अनुगम्यत्वात; इह यैर्यदनुगम्यते तत्तेभ्योऽन्यत्, यथा नरेभ्यो राजा। अभिगम्यतेऽनुगम्यते च क्रिया कारकैः, अतस्ततोऽन्येयम्।
२. जन्यत्वेनोपलम्भात्; यज्जन्यतया यदुपलभ्यते तत्ततोऽन्यत्, यथा पितुः पुत्रः। उपलभ्यते क्रिया कारकजन्यत्वेन, तस्मात् ततोऽन्या।
३. उपलब्धावनुपलब्धेः; इह यस्योपलब्धौ यस्यानुपलब्धिः तत्ततोऽन्यथा, (यथा) रूपाद्रसः। सूर्यस्य चोपलब्धौ न गतेरुपलब्धिः, तस्यास्ततोऽन्यथा; अस्ति चास्यासौ, देशान्तरप्राप्तेः; सापि दृष्टा; तथैवापश्यतः परावृत्य दर्शनात्।
४. प्रमाणान्तरग्राह्यत्वात्; इह यद्यस्मात् प्रमाणान्तरेण गृह्यते तत्ततोऽन्यत्; यथा शरीरादात्मा। प्रमाणान्तरग्राह्या च सदागतौ गतिः; तस्मात्ततोऽन्या।
५. बहुप्रविविक्तत्वेनाभिधानात्; इह यद् बहुभ्यः प्रविविक्तमेकत्वेनाभिधीयते, तत् ततोऽन्यत्; यथा तन्तुभ्यः पटः। अभिधीयते बह्वाश्रितापि प्रविवेकैकत्वेन क्रिया; यथा ब्राह्मणैरास्यत इति तस्मात् ततोऽन्या।
६. अनावृत्तावावृत्तेः; इह यस्मिन्ननावर्तमाने यदावर्तते, तत् ततोऽन्यत्, यथा हस्तिनो मशकः। आवर्तते चानावर्तमाने कर्तरि क्रिया, पञ्चकृत्वः पचतीति; तस्मात् ततोऽन्या।
७. इहोभयोरपि संशयनिर्णयनिमित्तत्वात्; इहोभयोस्संशये यस्य यो निर्णयहेतुर्भवति, तत् ततोऽन्यत्, यथा स्थाणौ श्र्येनः, निर्णयहेतुश्च, पुरुषस्य चलनादिक्रिया, तस्मात् ततोऽन्या।
८. अभिधायाभिधानात्; इह यदभिधायार्थान्तराविवक्षामन्तरेण यदभिधीयते तत् ततोऽन्यत्, यथा गौरश्वः। अभिधीयते च अध्येता अधीते गन्ता गच्छतीति कारकमभिधाय क्रिया, तस्मात् ततोऽन्या।