Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 04

Prakāśa 4: क्रियाद्यर्थचतुष्टयप्रकाशः

प्रकाशः 4 • क्रियाद्यर्थचतुष्टयप्रकाशः

Prakāśa 4 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 756 Verses • Citations: SP 4.1–756 • 4 Lexicon Terms • Page 4 of 26 (Verses 30 shown)
८. बुद्धिसत्ताभावेषु प्रत्यस्तमितरूपमनेकबुद्ध्यनुस्यूतं बुद्धिसामान्यं वा क्रियाशब्दे— नाभिधीयते। अपि च—
यावत् सिद्धमसिद्धं वा साध्यत्वेन विवक्षितम्।
आश्रितक्रमरूपत्वात् तत् क्रियेत्यभिधीयते॥ ५॥
(क्रियायाः परोक्षत्वम्)
सा च कार्यानुमेयत्वात् परोक्षेत्येके। गच्छतिपचत्यादिप्रत्ययेषु प्रत्यक्षेण, देवदत्तादिस्वरूपेऽतिरिक्तक्रियातत्त्वानुपलब्धेः। तथा हि—
य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः।
चलतीत्यपि संवित्तौ स एव प्रतिभासते॥ ६॥
किंतु चलतीति प्रतीतिः संयोगविभागमालम्बते, संयोगविभागः कदाचिदेवोत्पद्यमानः परिदृश्‍यमानपदार्थस्वरूपातिरिक्तं कारणमनुमापयति, यच्‍च कारणं स परिस्पन्दप्रयत्‍नादिरूपः पुरुषव्यापारोऽतीन्द्रियः क्रियेति।
तदनुपपन्नमित्यन्ये। चलतीत्यादिप्रत्ययानां प्रत्यक्ष क्रियाऽवलम्बनत्वात्। तथा च न चलतीति प्रतीतेस्संयोगविभाग आलम्बनमव्याप्‍त्यादिप्रसङ्गात्। तत्र आकाशे विहङ्गमो गच्छतीति प्रतीतिर्न स्यात्, संयोगविभागयोरग्रहणात्। न च द्वयोर्विहङ्गमविहायसोः संयोगविभागौ प्रत्यक्षौ, प्रत्यक्षेतरवृत्तित्वात्, वायुवनस्पतिसंयोगविभागवत्।
अथ विततालोकावयवी आकाशः, तत्संयोगविभागौ च पक्षिणः प्रत्यक्षौ; तन्न; सन्तमसेऽपि खद्योतविद्युतोः क्रियाबुद्धेः।
न च तमो नाम वस्तुरूपमस्ति, भूकम्पे च कम्पते वसुन्धरेति च ज्ञानमस्ति। न च संयोगविभागग्रहणमस्तीत्यव्याप्तिः। संयोगविभागोपजनप्रबन्धेऽपि तयोर्वर्तमानयोरेव ग्रहणम्; तौ च गत्वापि स्थिते गवादौ स्त इति। तत्रापि गच्छतीति ज्ञानप्रसङ्गः; निश्‍चले च श्‍येनसमवायापायपरम्परावति वध्यशूले, प्रवाहजलाश्‍लेषमालहारिणि सरित्कूले, रङ्गतुरङ्गमसंयोगविभागश्रेणिमति च वाह्यालीमहीतले चलतीति प्रत्ययः प्राप्‍नोति। अथ क्रियाजन्यत्वं संयोगविभागजानां, तत्रैव चलतीति श्‍येनादौ, चलतीति प्रत्ययो न निष्क्रिये शूलादाविति; तर्हि क्रियावयवान्वयव्यतिरेकानुविधानात् क्रियालम्बन् एवायं प्रत्ययो, न संयोगवियोगालम्बनः।
किञ्च नित्यपरोक्षायां क्रियायामिदमपि न ज्ञायते— 'किं शूलकूलमहीतलक्रियाजन्यत्वं संयोगविभागानां, किं वा श्‍येनजलतुरगक्रियाजन्यत्वमित्यतिव्याप्तिः; संयोगविभागालम्बनत्वे च संयुज्यते वियुज्यत इति च प्रतीतिः स्यात्, न चलतीति, यथाविषयं प्रत्ययोत्पादाद्, अनिर्ज्ञाने जलस्य अनिर्ज्ञातलक्षणस्य आलम्बनता स्यात्। चलतीति च वर्तमानाभासः प्रत्ययः संयोगविभागानुमेयत्वेन संभवति। तथा हि— 'संयोगान्तं कर्मे'—ति न्यायात्। न च संयोगो वर्तमानां क्रियामनुमापयति; विभागोऽपि कार्यत्वादात्मनः प्राक्कालीनमेव कारणं गमयति। कारणस्य हि सत्त्वं प्राक्कलीनमेव कार्योपयोगि, न तुल्यकालं, तदानीं तस्य असिद्धत्वात्। अतः कार्यात् कारणभूतां क्रियामनुमिमानो, भूतामेवानुमिमीते, न वर्तमानाम्। तस्मात् संयोगविभागाभ्यां क्रियानुमाने वर्तमानाभासश्‍चलतीति प्रत्ययो न संभवतीत्यसंभवः। न च नित्यपरोक्षक्रियानुमानमपि शक्यं, कार्यं कारणपूर्वकमिति संबन्धग्रहणानुपपत्तेः। न हि द्रव्यमात्रं कारणम्, अपि तु क्रियाविशिष्टं, क्रियायाश्‍च परोक्षत्वान्न तदानीं विशिष्टद्रव्यकारणग्रहणं सुघटमिति घटादावपि दुर्घंटा व्याप्‍तिप्रतीति। तस्मान्न कार्यानुमेया क्रिया। अपि तु उत्क्षेपणादिभेदवतः परिस्पन्दरूपस्य कर्मणः प्रत्यक्षेणोपलम्भात् प्रत्यक्षैवेति। एतेन पचतीति प्रतीतिरपि प्रत्यक्षक्रियालम्बनैवेति व्याख्यातम्। तत्र हि पचत्यादिक्रिया बह्व्यः प्रतीयन्ते 'देवदत्तश्‍चलति, चुल्ली ज्वलति, स्थाली ऊष्मायते, पयः क्‍वथयति, पिधानमपिधत्ते, तण्डुलानि विक्‍लिद्यन्ति, दर्व्यपविध्यति, ओदनस्सिध्यति' इति।
ननु च पाको नाम धात्वर्थः परिदृश्‍यमानदेवदत्तादिव्यापारव्यतिरिक्त एषितव्यः, तमन्तरेण फलनिर्वृतेरभावात्; तदभावे च किमधिकृत्य कारकाणि संसृज्येरन् ?
अत्रोच्यते—यं तमेकं पाकं नाम धात्वर्थं चलनादिभ्योऽतिरिक्तं क्रियेति मन्यसे, स किं वस्तुधर्मः, तत्कार्य वा ? तत्र वस्तुधर्मत्वे रूपवज्जातिवद् वाभ्युपगम्यमाने यावद्वस्तु सर्वकालं वा फलनिष्पत्तिप्रसङ्गः। तत्कार्यत्वे सति स किं सकलकारकनिष्पाद्यः, एकैककारकनिर्वर्त्यो वा ? तत्राद्यपक्षे एकैकं भवेत् कारकमक्रियम्; एकैकनिष्क्रियत्वे तु साकल्येऽपि कार्यत्वाद् व्यापारान्तरकल्पनायामनवस्था। पक्षान्तरे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्युरिति किं क्रियया ?
सत्यम्; करोति फलं न तु क्रियाम्।
ननु करोतीति यद् ब्रूषे सेयमुक्तैव क्रिया। चैत्रः कटं करोतीति चैत्रस्यैव कटस्यैव करोतेरप्यर्थो वाच्य एव।
उच्यते— परिस्सन्द एव भौतिको व्यापारः करोत्यर्थः। न हि वयं परिदृश्यमानं परिस्पन्दात्मकं व्यापारमपह्नुमहे, प्रतिकारकं विचित्रस्य चलनादेर्व्यापारस्य प्रत्यक्षेणोपलम्भात्। अतीन्द्रियस्तु तदतिरिक्तः करोत्यर्थो नास्तीति ब्रूमहे। क्रियातीन्द्रियत्वे हि तद्योगकृतं कारकत्वमधिगच्छन्तः फलार्थिनस्तदुपाददीरन्।
तावदेव विनिश्‍चित्य तदुपादीयतेऽर्थिभिः।
तदेवोपाददानैश्‍च फलमप्यधिगम्यते॥ ७॥
कारकत्वं च पक्षेऽस्मिन्‍नास्ति किञ्‍चिदतीन्द्रियम्।
कारकत्वं स्वरूपस्य सहकार्यादिसन्निधिः॥ ८॥
निर्व्यापारस्य नन्वस्य को गुणस्सहकारिभिः।
व्यापारयोगिनोऽप्यस्य को गुणस्सहकारिभिः॥ ९॥
अथ व्यापार एवैष सर्वैः संभूय साध्यते।
किं फलेनापराद्धं वस्तद्धि संभूय साध्यताम्॥ १०॥
तस्मात् कारकचक्रेण चलता जन्यते फलम्।
न पुनश्‍चलनादन्यो व्यापार उपलभ्यते॥ ११॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →