Skip to main content
Search
Ch. 4 SP 4.104
Full Chapter
SP • Chapter 4: Prakāśa 4: क्रियाद्यर्थचतुष्टयप्रकाशः

SP 4.104

Canonical Ref: SP 4.104
Sanskrit (Devanāgarī)
किञ्च नित्यपरोक्षायां क्रियायामिदमपि न ज्ञायते— 'किं शूलकूलमहीतलक्रियाजन्यत्वं संयोगविभागानां, किं वा श्‍येनजलतुरगक्रियाजन्यत्वमित्यतिव्याप्तिः; संयोगविभागालम्बनत्वे च संयुज्यते वियुज्यत इति च प्रतीतिः स्यात्, न चलतीति, यथाविषयं प्रत्ययोत्पादाद्, अनिर्ज्ञाने जलस्य अनिर्ज्ञातलक्षणस्य आलम्बनता स्यात्। चलतीति च वर्तमानाभासः प्रत्ययः संयोगविभागानुमेयत्वेन संभवति। तथा हि— 'संयोगान्तं कर्मे'—ति न्यायात्। न च संयोगो वर्तमानां क्रियामनुमापयति; विभागोऽपि कार्यत्वादात्मनः प्राक्कालीनमेव कारणं गमयति। कारणस्य हि सत्त्वं प्राक्कलीनमेव कार्योपयोगि, न तुल्यकालं, तदानीं तस्य असिद्धत्वात्। अतः कार्यात् कारणभूतां क्रियामनुमिमानो, भूतामेवानुमिमीते, न वर्तमानाम्। तस्मात् संयोगविभागाभ्यां क्रियानुमाने वर्तमानाभासश्‍चलतीति प्रत्ययो न संभवतीत्यसंभवः। न च नित्यपरोक्षक्रियानुमानमपि शक्यं, कार्यं कारणपूर्वकमिति संबन्धग्रहणानुपपत्तेः। न हि द्रव्यमात्रं कारणम्, अपि तु क्रियाविशिष्टं, क्रियायाश्‍च परोक्षत्वान्न तदानीं विशिष्टद्रव्यकारणग्रहणं सुघटमिति घटादावपि दुर्घंटा व्याप्‍तिप्रतीति। तस्मान्न कार्यानुमेया क्रिया। अपि तु उत्क्षेपणादिभेदवतः परिस्पन्दरूपस्य कर्मणः प्रत्यक्षेणोपलम्भात् प्रत्यक्षैवेति। एतेन पचतीति प्रतीतिरपि प्रत्यक्षक्रियालम्बनैवेति व्याख्यातम्। तत्र हि पचत्यादिक्रिया बह्व्यः प्रतीयन्ते 'देवदत्तश्‍चलति, चुल्ली ज्वलति, स्थाली ऊष्मायते, पयः क्‍वथयति, पिधानमपिधत्ते, तण्डुलानि विक्‍लिद्यन्ति, दर्व्यपविध्यति, ओदनस्सिध्यति' इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 4.104. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 4.103) All Verses in Chapter 4 Next Verse (SP 4.105) →