Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 04

Prakāśa 4: क्रियाद्यर्थचतुष्टयप्रकाशः

प्रकाशः 4 • क्रियाद्यर्थचतुष्टयप्रकाशः

Prakāśa 4 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 756 Verses • Citations: SP 4.1–756 • 4 Lexicon Terms • Page 9 of 26 (Verses 30 shown)
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरै॥ ३९॥
मौक्तिकाकारविस्तारि तारानिकरचित्रितम्।
शरत् पिशुनतां याति यामुनाम्भोनिभं नभः॥ ४०॥
आयामियामिनीभोगसफलाभोगविभ्रमाः।
हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः॥ ४१॥
आस्कन्दन—दलत्कुन्दकलिकोत्करदन्तुराः।
वदन्ति शिशिरं वातास्तुषारकणकर्कशाः॥ ४२॥
बाल्यकौमारयौवनादयो मौग्ध्यमाध्यप्रागल्भ्यादयश्‍च क्रियाविशेषव्यङ्ग्याः कालविशेषा एव। वयो हि देहिनां वत्सरादिभिः कालभेदः; वयोनिमित्ताश्‍च तेषां मौग्ध्यादय इति। उच्यते—
उत्तालालकभञ्जनानि कबरीभारेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः।
तिर्यग्लोचनवल्‍गितानि वचसां छेकोक्तिसङ्क्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः॥ ४३॥
व्यसनोत्सवनित्यनैमित्तिकक्षणप्रकीर्णचन्द्रोदयचन्द्रास्तमयप्रभृतयश्‍च कालव्यपदेश— भाजो गोदोहादिवद् वेदितव्याः। अपि च
पराव/पर—चिरक्षिप्र—क्रमोत्क्रम—विभागवान्।
कालक्रियाविशेषाभिव्यङ्ग्ययरीतिः प्रतीयताम्॥ ४४॥
तथा हि— उत्पत्त्यादिक्रियाणां प्रथमत्वे परः; यथेयं बाला ज्येष्‍ठा च; वैपरीत्ये पुनरपरः, यथैषा प्रगल्भा कनिष्‍ठा च। साधनानां मन्दसंपातित्वे चिरः, यथा वत्स्यति कालः पक्ष्यते तालः, भोक्ष्यते तालफलम्; तदन्यथात्वे क्षिप्रः, यथोद्भिन्नश्‍च वंशकरीरः शिरागतश्‍च प्रमाणम्। क्रियाणामपौर्वापर्ये युगपत्, यथा कपित्थयोः प्रतिभेदः, मेषयोरभिघातः। पौर्वापर्ये त्वयुगपत्, यथा दिवसाग्रतो निशा, निशाग्रतो दिवस इति। सेयं वस्तुनश्शक्तिः पाकप्रभवा स्वाभाविकी क्रियैव; क्रियापरिच्छेदहेतुः कालः; क्रियाश्‍च भूता भविष्यन्ति, वर्तमानाः अव्यक्ताश्‍च। तत्र व्यतिपतितसाधनभूता यथाऽपाक्षीदिति; अनागताऽसन्निहित— साधना च भविष्यति यथा पक्ष्यतीति; आवाप्‍ता अप्रच्युतस्वरूपा वर्तमाना यथा पचतीति; अनिर्धारितविशेषा अव्यक्ता यथा पचेदयमिति। तन्निबन्धनश्च लोके अद्य, श्वः, परश्वः, परेद्युः, अन्येद्युः, उभयेद्युः, इदानीम्, एतर्हि, ऐषमः, परूत्, परारि, शश्वत्, स्वः, भूः, सद्युः, पुरा, ह, स्म, यावत्, तदा, यदा, अन्यदा, एकदा, सदेति व्यवहारः लुङादीनां भूतादिषु स्मरणमिति।
अन्ये पुनः क्रियाव्यतिरिक्तमनुदयास्तमयमभिन्नमनवच्छिन्नदेशं च द्रव्यं पृथग्विधानेकशक्तिशतसहस्त्रपाकायतनं जगत्प्रवृत्तिनियमकारणं क्रियापरिच्छेदहेतुमदृष्‍टाद्यपेक्षं कालमाचक्षते। स च क्रियापरिच्छेद्यः किलेति केचित्; आहुश्‍च "नित्यो व्यापी संप्रतिभूतभविष्यत्क्रियासमावेशात् आकाशकल्प एको द्रव्यात्मा भिद्यते कालः॥" तच्‍चासमीचीनमेवेति ब्रूमः। क्रिया हि साध्यत्वात् साधनमेवापेक्षते। न च क्रियाविशिष्‍टस्यापि द्रव्यात्मनः कालकारकेण संबन्धो घटते, द्वयोरपि सिद्धत्वात्। तस्माद् द्रव्यरूपे क्रियारूपे वा कालः क्रियामेव विशेषयति। सा च तद्विशिष्‍टा कारकविशेषमुपतिष्ठते। यदाह—
गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते।
प्रधानस्योपकारित्वे तथा भूयसि वर्तते॥ ४५॥
कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः।
केचिद्‍बुद्ध्यनुसंधानलक्षणं तं प्रचक्षते॥ ४६॥
सत्तालक्षणमन्ये तु क्षणरूपं तथाऽपरे।
देवतावस्तुशक्‍त्यात्मस्वरूपमपरे विदुः॥ ४७॥
तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते॥ ४८॥
प्रतिबद्धाश्‍च यास्तेन चित्रा विश्वस्य शक्‍तयः।
तास्स एवानुजानाति यथा तन्त्रशकुन्तिकाः॥ ४९॥
प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शाश्वती।
तया विभज्यमानोऽसौ लभते क्रमरूपताम्॥ ५०॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →