Skip to main content
Search
Ch. 4 SP 4.256
Full Chapter
SP • Chapter 4: Prakāśa 4: क्रियाद्यर्थचतुष्टयप्रकाशः

SP 4.256

Canonical Ref: SP 4.256
Sanskrit (Devanāgarī)
अन्ये पुनः क्रियाव्यतिरिक्तमनुदयास्तमयमभिन्नमनवच्छिन्नदेशं च द्रव्यं पृथग्विधानेकशक्तिशतसहस्त्रपाकायतनं जगत्प्रवृत्तिनियमकारणं क्रियापरिच्छेदहेतुमदृष्‍टाद्यपेक्षं कालमाचक्षते। स च क्रियापरिच्छेद्यः किलेति केचित्; आहुश्‍च "नित्यो व्यापी संप्रतिभूतभविष्यत्क्रियासमावेशात् आकाशकल्प एको द्रव्यात्मा भिद्यते कालः॥" तच्‍चासमीचीनमेवेति ब्रूमः। क्रिया हि साध्यत्वात् साधनमेवापेक्षते। न च क्रियाविशिष्‍टस्यापि द्रव्यात्मनः कालकारकेण संबन्धो घटते, द्वयोरपि सिद्धत्वात्। तस्माद् द्रव्यरूपे क्रियारूपे वा कालः क्रियामेव विशेषयति। सा च तद्विशिष्‍टा कारकविशेषमुपतिष्ठते। यदाह—
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 4.256. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 4.255) All Verses in Chapter 4 Next Verse (SP 4.257) →