समर्थो यथा— व्रजति, पचति, अस्ति, श्वेतते।
असमर्थो यथा— जायते, विरमति, नश्यति, विकरोति।
समर्थासमर्थो यथा— चैत्रस्य रुजति, चैत्रस्यामयति, चोरं ज्वरयति, चोरं संतापयति।
संबन्धो यथा प्रियं दृष्ट्वा सुखं भवति, रिपुं दृष्ट्वा दुःखमुत्पद्यते, रम्यं श्रुत्वा दिदृक्षा जायते, रहः प्राप्य रतिर्निर्वर्तते।
असंबन्धो यथा— मेरौ दोग्धरि धरित्रीमद्रयो दुदुहुः, पञ्चभिर्हलैः क्षेत्रं ग्रामणीः कर्षति, शैलैर्वाल्मीकिरम्मोधिं बन्धयति, उज्जनिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति।
संबन्धासंबन्धो यथा— भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यात्।
१. वाक्यपदीय ३.७.२०—३.७.२१ इति कारिकयोः उत्तरार्द्धे।
(हेतुः —६) कर्मप्रयोजकः, कर्तृप्रयोजकः, कर्मकर्तृप्रयोजकः, हेतुप्रयोजकः, अहेतुप्रयोजकः हेत्वहेतुप्रयोजकश्च। तेषु—
कर्मप्रयोजको यथा— गां दोग्धि पयः, पौरवं गां याचते, गर्गाञ्छतं दण्डयति, काशान् कटं करोति।
कर्तृप्रयोजको यथा— यज्ञदत्तः पाचयति, माठरः पाठयति, भिक्षा वासयति, कारीषोऽग्निः अध्यापयति।
कर्मकर्तृप्रयोजको यथा— आरोहयति हस्तितं हस्तिपकः, आरोहयते हस्तिनं हस्तिपकः, आरोहयते हस्ती, निषादयति क्रमेलकमौष्ट्रिकः, श्रपयति यवागूं यज्ञदत्तः, साधयति ओदनं सूपकार इति। कथं पुनः श्रायति—सियति—कर्त्रोर्यवाग्वोदनयोः कर्मकर्तृत्वं घटते?
श्रातिसिध्यती अकर्मकौ कर्मकर्तृविषयस्य पचेरर्थे वर्तेते। एतौ पुनः प्राकृतं पच्यर्थमाहतुरिति।
हेतुप्रयोजको यथा—अवीवदत् प्रवीणो वीणां परिवादकेन, अपीपठत् कठो माणवकं माठरेण, अजिघ्रपत् प्रियः कुसुमं कान्तया, अदूदुहद् गां वल्लवो गोपालकेन। कथं पुनः दुहिकर्तुः कर्तृप्रयोजकस्य हेतुत्वम्?
दुहेरन्तर्भूतणिजर्थत्वात्। वक्ष्यति हि—
अन्तर्भूतणिजर्थानां दुहादीनां णिजन्तवत्।
सिद्धं पूर्वेण कर्मत्वम् (णिजन्तं नियमस्तथा)॥ ९१॥
इति (वाप. ३.७.७३)।
अहेतुप्रयोजको यथा— संवर्मयति, अतिहस्तयति, अभिषेणयति, उपश्लोकयति।
हेत्वहेतुप्रयोजको यथा— पुत्र उपाध्यायमध्यापयति, कन्या नदौ न (?) वर्तयति, याज्ययाजकौ याजयति, कन्यावरौ विवाहयति।
(कर्मकर्ता —६) विकर्मकर्ता, प्रयोज्यकर्ता, कर्मप्रयोज्यकर्ता, प्रकृतिकर्ता, विकारकर्ता प्रकृतिविकारकर्ता च। तेषु—
विकर्मकर्ता यथा— अवकिरते हस्ती, ग्रथते माला, प्रस्नुते गौः, चिकीर्षते कटः।
प्रयोज्यकर्ता यथा— पाचयति देवदत्तेन, पाठयति विष्णुमित्रेण, भारयति भारं वाहकेन, कारयति कटं वरुटेन।
कर्मप्रयोज्यकर्ता यथा— आरोहयते निषादिनं करेणुः, लावयते पामरं केदारः, दर्शयते राजा भृत्यैः, अभिवादयते गुरुर्देवदत्तेन।
प्रकृतिकर्ता यथा—काष्ठानि भस्म भवन्ति, महद्भूतश्चन्द्रमाः, त्वद् भवन्ति ज्ञातयः, मद् भवन्ति दायादाः।
विकारकर्ता यथा—मूत्राय संपद्यते यवागूः, अभ्यूषाय कल्पते यवानी, घटाय कपालौ भवतः; सुवर्णपिण्डं कुण्डले भवतः।
प्रकृतिविकारकर्ता यथा—सङ्घीभवन्ति ब्राह्मणाः, वर्गीभवन्ति गावः वत्सो वृषस्संपद्यते, बाला प्रगल्भा भवति।
स एषोऽष्टादशप्रकारोऽपि अभिहितानभिहितप्रयुज्यमानाऽप्रयुज्यमानप्रसिद्धप्रकृता— पेक्षितौपचारिकप्रकल्पितविकल्पितानुस्यूतसामान्यादिभेदादनेकधा कर्तृभेदस्संभवति। तत्र—
अभिहितो यथा— स आस्ते, भवान् करोति।
अनभिहितो यथा— भवता कृतं, तेन सुप्यते।
प्रयुज्यमानो यथा— त्वं पचसि, अहं पचामि।