Skip to main content
Search
Ch. 4 SP 4.18
Full Chapter
SP • Chapter 4: Prakāśa 4: क्रियाद्यर्थचतुष्टयप्रकाशः

SP 4.18

Canonical Ref: SP 4.18
Sanskrit (Devanāgarī)
२. इथश्‍चास्ति क्रिया, साध्यमन्तरेण साधनानुपपत्तेः। इह खलु कर्त्रादीनां साधनव्युपदेशो दृश्यते, स च साध्यमन्तरेणानुपपन्नः; यच्‍च साध्यं सा क्रिया। तदाह— संहृत्य कारकैर्य एकोऽर्थोऽभिनिर्वर्त्यते सा क्रिया। क्रियानिमित्तं कारकमिति। तथा च क्रियासु स्वेच्छया कारकादीनि यः प्रयुङ्क्ते न तु तैः प्रयुज्यते, स कर्ता, कर्तुः क्रिययाऽनन्यया यदाप्यते तत्कर्म, क्रियासिद्धौ साधकतमत्वेन यदव्यवहितं व्याप्रियते तत् करणम्, कर्त्रा कर्मणा वा व्यवहितः क्रियाधारोऽधिकरणम्, क्रियाकार्यत्वेनावधारितं कर्मणा संयोगं यदनुभवति तत्संप्रदानम्, कर्त्रा कर्मणा वा क्रियाजन्यमेव ध्रौव्येण यद्‌विभागमवगाहते तदपादानम्, श्रूयमाणाश्रूयमाणक्रियापदः क्रियाकृतः कारकाणामकारकाणां च संबन्धविशेषः स शेषः (वाप. ३.७.१५६)। कुर्वन्तमेवाज्ञा— प्रदानादिना यः क्रियायां नियुङ्क्ते, सः तत्प्रयोजको हेतुः कर्ता च भवति। एवं च यथा काष्ठादयो लाक्षादिकमपेक्षमाणा एवं मिथस्संबन्धयोग्यतामनुभवन्ति तथा द्रव्याण्यपि क्रियापेक्षीण्येव परस्परसंबन्धाय प्रभवन्तीति क्रियामन्तरेण जगतश्‍चित्रकर्मण इव मिथस्संयोगो वियोगश्‍च न स्यात्। तदुक्तं — यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा ननं क्रियेति (मभा. १.३.१)।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 4.18. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 4.17) All Verses in Chapter 4 Next Verse (SP 4.19) →