Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 05

Prakāśa 5: उपाध्याद्यर्थचतुष्टयप्रकाशः

प्रकाशः 5 • उपाध्याद्यर्थचतुष्टयप्रकाशः

Prakāśa 5 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 5.1–841 • 4 Lexicon Terms • Page 20 of 29 (Verses 30 shown)
निपातादिवाच्यो यथा—(जाह. १.२८)
लीला गतेस्तत्र निसर्गसिद्धा मत्तो न हस्ती मुषितो न हंसः।
इतीव जङ्घायुगलं तदीयं चक्रे तुलाकोट्यधिरोहणानि॥ ८८॥
तृतीयावाच्यो यथा—(कुसं. १.२४)
तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकाशे।
विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्‍नशलाकयेव॥ ८९॥
पञ्चमीवाच्यो यथा—(कुसं. ५.४०)
अतोऽत्र किञ्चिद् भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टुमनास्तपोधने ! न चेद् रहस्यं प्रतिवक्‍तुमर्हसि॥ ९०॥
प्रथमादिवाच्यो यथा—(कुसं. १.११)
उद्वेजयत्यङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः॥ ९१॥
हेतुरेव ज्ञापको लक्षणम्।
तत् षोढा — द्रव्यलक्षणं, इत्थंभूतलक्षणं, विकारलक्षणं, उत्पातलक्षणं, भावलक्षणं, क्रियालक्षणमिति। तेषु—
द्रव्यलक्षणं यथा—(रघु. ६.१२)
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः।
प्रवालशोभा इव पादपानां श्रृङ्गारचेष्टा विविधा बभूवुः॥ ९२॥
इत्थंभूतलक्षणं यथा—(काव्याद. २.१०)
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः।
पारावतः परिक्रम्य रिरंसुश्‍चुम्बति प्रियाम्॥ ९३॥
विकारलक्षणं यथा—(माघ. १.७०)
स बाल आसीद् वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः॥ ९४॥
उत्पातलक्षणं यथा—(विसा. १.३)
गोनासाय नियोजितागदरजास्सर्पाय बद्धौषधिः
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षत्वद्रिसुता विवाहसमये ह्रीता च भीता च या॥ ९५॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →