Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 05

Prakāśa 5: उपाध्याद्यर्थचतुष्टयप्रकाशः

प्रकाशः 5 • उपाध्याद्यर्थचतुष्टयप्रकाशः

Prakāśa 5 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 841 Verses • Citations: SP 5.1–841 • 4 Lexicon Terms • Page 10 of 29 (Verses 30 shown)
उज्झितस्वरूपो यथा—'वेश्शालच्छङ्कटचौ' (५.२.२८), 'संप्रोदश्‍च कटच्' (५.२.२९), 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५.२.३४) इति यथा— विशालं, विशङ्कटं, प्रकटं, विकटम्, उपत्यका, अधित्यका इति। अत्रोपसर्गेरशृङ्गत्वादिस्वरूपमुज्झितम्।
अनुज्झितस्वरूपो यथा— 'वत्सोक्षश्वर्षभेभ्यश्‍च तनुत्वे' (५.३.१९), 'कासूगोणीभ्यां ष्‍टरच्' (५.३.९०), 'किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' (५.४.११)। 'विनञ्भ्यां नानाञौ नसह' (५.२.२७)। यथा— वत्सतरः, उक्षतरः, नितराम्, अतीवतरां, विना, नानेति।
उपचरितार्थवृत्तिः सन्दिग्धः। स द्विधा— सङ्ख्यावानसङ्ख्यतश्‍च। तयोः—
तिङन्तार्थो यथा— पचतितरां, पचतकीति (५.३.७४,७५)।
सुबन्तार्थो यथा— त्वयका, उच्‍चकैः (५.३.७४) इति।
(३) उक्‍तादन्यः शेषः स द्विधा प्रत्ययार्थः समासार्थश्‍च।
प्रत्ययार्थो द्विधा, कृदर्थस्तद्धितार्थश्‍च। तयोः
कृदर्थो यथा— व्यावक्रोशी, सांराविणमिति।
तद्धितार्थो यथा— आभिजित्यः(५.३.११८), कौञ्जायन्यः(५.३.११३) इति।
समासार्थो द्विधा— समासनिमित्तम्, समासनिमित्तश्‍च। तत्र
यमाश्रित्य 'तद्धितार्थ' इति समासो भवति (स) समासनिमित्तम्। यथा— द्वैमातुरः, पञ्चकपाल इति।
सम्बन्धी यस्य तु समासन्त इति समासो निमित्तं स समासनिमित्तः। यथा—देवराजः, प्रत्युरसमिति।
सम्बन्धी न्निधा— (१) क्रिया, (२) द्रव्यं (३) गुणश्‍च। तेषु —
(१) क्रिया न्निधा— क्रियासम्बन्धिनी, कारकसम्बन्धिनी उभयसम्बन्धिनी च। तासु— क्रियासम्बन्धिनी द्विधा— भिन्नरूपाऽभिन्नरूपा च।
भिन्नरूपा यथा— कर्तुमिच्छति चिकीर्षति, जुगुप्सिच्छति जुगुप्सिषत' इति।
अभिन्नरूपा यथा— अत्यर्थं पचति पापच्यते, पुनः पुनः पठति पापठ्यत इति।
कारकसम्बन्धिन्यपि द्विधा, साकाङ्क्षा निराकाङ्क्षा च।
साकाङ्क्षा यथा— पटमिवाचरति पटीयति कम्बलम्, प्रासाद इवाचरति प्रासादीयति कुटी।
निराकाङ्क्षा यथा—पुत्रमिच्छति पुत्रीयति, पुच्छमुदस्यत्युत्पुच्छयत इति।
उभयसम्बन्धिनी द्विधा— क्रियाकारकसम्बन्धिनी कारकक्रियासम्बन्धिनी च। तयोः
प्रथमा यथा— पचन्तं प्रयुङ्क्ते पाचयति देवदत्तः, अधीयानं प्रयुङ्क्ते अध्यापयति कारीषोऽग्‍निः।
द्वितीया यथा— कंसवधमाचष्‍टे कसं घतयति, आरात्रि विवासमाचष्‍टे रात्रिं विवासयति।
(२) द्रव्यमपि त्रिधा— विशेष्यं, विशेषणं, व्यवहितं च। तेषु—
विशेष्यं द्विधा— सापेक्षमनपेक्षं च।
सापेक्षं यथा— युष्माकमयं यौष्माको गौः, वत्सेभ्यो हितो वत्सीयो गोधुक्।
अनपेक्षं यथा— वसिष्ठस्यापत्यं वासिष्‍ठः, पृथिव्या ईश्वरः पार्थिवः।
विशेषणं द्विधा— धर्मिनिष्‍ठं धर्मनिष्‍ठं च।
धर्मिनिष्‍ठं यथा—गावोऽस्य सन्तीति गोमान्, प्रासादोऽस्य स्यात् प्रासादीयं दारू।
धर्मनिष्‍ठं यथा— अस्तीति मतिरस्यास्तिकः, नास्तीति मतिरस्य नास्तिक इति।
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →