एवम् अवगतवान् कोटम् अवकोटः,
अपिहितः कायतीति पिकः
संपन्नं ब्रह्म बाभ्रवाणां सब्रह्म (काशिका २.१.६),
श्रद्धीयत इति श्रद्धा (मभा १.४.५९),
अन्तर्धीयते (इति) अन्तर्धिः (मभा. १.४.६५),
(२. द्योतकाः)
द्योतका यथा— प्रतिष्ठते, पराक्रमते, अपकरोति, संक्रीडति, अनुकम्पते,
अवधत्ते, निर्विवेश, दुर्ललितः, व्याददाति, आह्वयते, निशमयति,
अधिकुरुष्व, अपिदधाति, अतिशेते, सुरभिः, उत्पादयति, अभिधत्ते,
प्रतीक्षते, परिणमते, उपायंस्त।
एवं वधत्ते, पिधत्ते श्रद्धत्ते, सहितः, अन्तर्दधाति इति ॥
(३. विशेषकाः)
विशेषकास्तु द्विधा प्रकृत्यर्थविशेषकाः, प्रत्ययार्थविशेषकाश्च। तेषु —
प्रकृत्यर्थविशेषका यथा—
प्रवर्धते, पलायते, अपवदते, संसरति, अनुमन्यते, अवलोकते, निष्कर्षति, दुर्भवति, विलोकते, आलोकते, निषीदति, अधिवसति, अपिनह्यति, अतिवर्त्तत, सुभवति, उद्भवति, अभ्येति, प्रतिपद्यते, परिगणयति, उपदधाति एवं 'वतंसः पिनद्धवान् सततम् श्रद्धनः अन्तर्भवति।
प्रत्ययार्थविशेषका यथा—
मनस्वी, सुभवति, सुमनायते (३.१.१२), दुर्भवति, दुर्मनायते (३.१.१२) एवम् अतिमनायते। पुच्छमुदस्यति, उत्पुच्छयते, (३.१.२०) व्यस्यति, विपुच्छयते, पर्यस्यति, परिपुच्छयते, भाण्डं समारचयति संभाण्डयते, चीवरं सञ्चिनोति सञ्चीवरयते (३.१.२०), हस्तेनापक्षिपति अपहस्तयति, वर्मणा संनह्यति संवर्मयति, पाशेन संयच्छति संपाशयति, चूर्णैरवध्वंसयति अवचूर्णयति, तूलैरवकुष्णाति अवतूलयति, हस्तिनाऽतिक्रामति अतिहस्तयति, सेनयाभियाति अभिषेणयति, वीणयोपगायति उपवीणयति, वास्या परिच्छिनत्ति परिवासयति, श्लोकैरुपस्तौति उपश्लोकयति, लोमान्यनुमार्ष्टि अनुलोमयति, पाशान् विमोचयति विपाशयति, तूस्तानि विहन्ति वितूस्तयति, रूपं निरीक्षते निरूपयति वस्त्रं परिदधाति परिवस्त्रयति, पर्य्याणमुत्तानयति उत्पर्याणयति इति ॥
ननु एतेऽपि क्रियाविशेषाणां वाचकाः कस्मान्न भवन्ति ? यद्धि यत्प्रयोगादवगम्यते तत् तस्य वाच्यं भवति।
नैवम्, 'भृशादिभ्यो भुव्यच्वेः' (३.१.१२) इत्यादिभिर्भवत्याद्यर्थ एव प्रत्ययोत्पत्तेः।
मैवं वोचः, नाहं क्यङन्तं पृच्छामि।
किं तर्हि ?
ण्यन्तम्। तत्र 'शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे' (३.१.१७) इति वर्त्तते। ततश्च करोत्यर्थलक्षणे धात्वर्थसामान्ये णिङ्णिचोर्विधानात्, पुच्छस्योदसनं करोत्युत्पुच्छयते, सेनयाभियानं करोत्यभिषेणयति इति करोत्यर्थस्य प्रत्ययेन उदसनाभियानादेस्तूपसर्गेणाविधाने वाचकत्वमेषां भविष्यतीति।
उच्यते— नेह 'करणे' इत्यनेन सकलधात्वर्थानुयायिक्रियास्वमान्यं प्रतिनिर्दिश्यते, अपि त्वनवधारितात्मस्वरूपा उदसनाभियानादयः क्रियाविशेषा एव।
कथमिदं ज्ञायते इति चेत्,
आचार्यप्रवृत्तिर्ज्ञापयति—यदयं
(१) 'मुण्ड—मिश्र—श्लक्ष्ण—लवणेभ्यः करणमात्रे प्रत्ययमुदाहरति। तद्यथा— मुण्डं करोति मुण्डयति, एवं मिश्रयति, श्लक्ष्णयति, लवणयति
(२) हलिकलिकृत तूस्तेभ्यो ग्रहणलक्षणे तद्विशेषे (प्रत्ययमुदाहरति)।
यथा— हलिमग्रहीत् अजहलत्, कलिमग्रहीद् अचकलत्, कृतं गृह्णाति कृतयति, त्वचं गृह्णाति त्वचयति,
(३) वर्णसत्यार्थवेदेभ्यस्तदाचष्टे (३.१.२५) इत्युपसर्गविशिष्टे धात्वर्थे।
यथा— वर्णमाचष्टे वर्णयति, सत्यमाचष्टे सत्यापयति, अर्थमाचष्टेऽ— र्थापयति, वेदमाचष्टे वेदापयति इति;