Skip to main content
Search
Ch. 1 SP 1.707
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.707

Canonical Ref: SP 1.707
Sanskrit (Devanāgarī)
मनस्वी, सुभवति, सुमनायते (३.१.१२), दुर्भवति, दुर्मनायते (३.१.१२) एवम् अतिमनायते। पुच्छमुदस्यति, उत्पुच्छयते, (३.१.२०) व्यस्यति, विपुच्छयते, पर्यस्यति, परिपुच्छयते, भाण्डं समारचयति संभाण्डयते, चीवरं सञ्चिनोति सञ्चीवरयते (३.१.२०), हस्तेनापक्षिपति अपहस्तयति, वर्मणा संनह्यति संवर्मयति, पाशेन संयच्छति संपाशयति, चूर्णैरवध्वंसयति अवचूर्णयति, तूलैरवकुष्णाति अवतूलयति, हस्तिनाऽतिक्रामति अतिहस्तयति, सेनयाभियाति अभिषेणयति, वीणयोपगायति उपवीणयति, वास्या परिच्छिनत्ति परिवासयति, श्‍लोकैरुपस्तौति उपश्‍लोकयति, लोमान्यनुमार्ष्टि अनुलोमयति, पाशान् विमोचयति विपाशयति, तूस्तानि विहन्ति वितूस्तयति, रूपं निरीक्षते निरूपयति वस्त्रं परिदधाति परिवस्त्रयति, पर्य्याणमुत्तानयति उत्पर्याणयति इति ॥
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.707. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.706) All Verses in Chapter 1 Next Verse (SP 1.708) →