Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 5 of 40 (Verses 30 shown)
प्रत्यया हि १सुप्—२तिङ्—३कृत्—तद्धित४—धातुप्रत्यय५—स्त्रीप्रत्यय६—भेदात् षट् प्रकाराः। तदन्ता प्रकृतिरपि प्रत्ययरूपा षट्प्रकारैव भवति। सा (द्र. अष्टाध्याय्याः ३–६ अध्यायाः)
१. सुप्प्रत्ययान्ता यथा— अहंयुः, शुभंयुः, सायन्तनम्, चिरन्तनम्, त्वयका, मयका, आमुष्यायणः अप्सव्यः (६.३.१८), प्राह्‍णेतराम्, प्रगेतराम्, पूर्वाह्‍णेतनम्, समांसमीना इति।
२. तिङ्प्रत्ययान्ता यथा— पचतितराम्, गच्छतितमाम्, स्पृशतिरूपम्, जल्पतिकल्पम्, जिघ्रतिदेश्यम्, पश्यतिदेशीयम्, आस्तिकः, नास्तिकः, पचतकि, भिन्धकि, पचतभृज्जत, खादतमोदत इति।
३. कृत्प्रत्ययान्ता यथा— कृत्त्रिमम्, हृत्रिमम् पाकिमम्, सेकिमम्, सांकूटिनम् सांराविणम्, व्यावक्रोशी, व्यावहासी, श्यैनम्पाता, तैलम्पाता, जित्वरी, आढ्यङ्करणी इति।
४. तद्धितप्रत्ययान्ता यथा— गार्ग्यायणः, दाक्षायणः, वार्ष्यायणिः, वार्ष्यायणीयः, फाण्टाहृतः, फाण्टाहृतायनिः, आभिजित्यः, कौञ्जायन्यः, कुतस्त्यः, तत्रत्यः, पचतितराम्, पचतितमाम् इति।
५. धातुसंज्ञाप्रत्ययान्ता यथा— चिकीर्षा, कण्डूया, पुत्रीया, कारणा, मिश्रणा, मृगया, अटाट्या, सासहिः, यायावरः, यायजूकः, चिकीर्षुः, चङ्क्रमण इति।
६. स्त्रीप्रत्ययान्ता यथा— गाङ्गेयः, सौदामेयः, कारीषगन्धेयः, द्रौपदेयः, गौरेयः, शार्ङ्गरवेयः, क्राद्रवेयः, कामण्डलेयः, यौवतेयः, सौरभेयः, बहुस्त्रीकः, सुवधूक इति।
अथ कथं यौवतेय इति प्रत्ययप्रकृतावुदाहृतम्, यावता 'यूनस्ति' (४.१.७७) इति एतस्य तद्धितसंज्ञया प्रातिपदिकत्वमेव।
सत्यमेतत्। स्त्रीसामान्यपर्यायो युवतिशब्दः प्रकृत्यन्तरमस्ति। यथाह 'धर्मार्थाङ्ग— विद्याकालाननुपरोधयन् कामसूत्रं तदङ्गविद्याश्‍च पुरुषोऽधीयीत, प्राग् यौवनाद् युवतिः' इति। तस्य।
'यूनस्तिः' इत्येतस्यैव वा, 'एरक्‍तिन' इति विभाषितङीषो ढगुत्पत्तिः। यथा— आदितेयः, सौरभेय इति।
अथ काद्रवेयः कामण्डलेय इति कथम्? ङ्यापोरप्रातिपदिकत्वेऽपि हि 'ङ्‌याप्प्रातिपदिकाद्' (४.१.१) इति विशेषविधानात्। यूनस्तिरित्येतस्य तु तद्धितत्वात् अस्तु सुबुत्पत्तिः, ऊङस्तु प्रत्ययत्वेन सा न सिद्ध्यति, समर्थाच्च तद्धितेन भवितव्यम्। अन्तादिवद्‌भावाद् भविष्यति, तथाहि 'ब्रह्मबन्धूरि'—त्यादौ 'अकःसवर्णे दीर्घः' (६.१.१०१) इति द्वयोरेकत्वं भवति।
यद्येवं 'स्त्रीभ्यो ढग्' (४.१.१२०) इति ढक् (ङ्) न सिध्यति, सोऽप्याद्यन्तवद्‌भावाद् भविष्यती'ति। 'साऽस्य देवता' (४.२.२४) इति ज्ञापकाद् ऊङुत्पत्तेः प्रागेव वा सुबुत्पत्तिरिति।
उक्ता षोढैवमेषाऽपि प्रकृतिः प्रत्ययात्मिका।
अथातः प्रातिपदिकरूपा षोढैव कथ्यते ॥ ३३ ॥
(ग. प्रातिपदिकरूपा प्रकृतिः)
तत्र— १नामाऽ२व्ययाऽनुकरण३—कृत्४—तद्धित५—समासाः६ प्रातिपदिकानि। तदाह—
१. 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' (१.२.४५),
२. 'कृत्तद्धितसमासाश्‍च' (१.२.४६),
३. निपातस्य चानर्थकस्य प्रातिपदिकसंज्ञा वक्‍तव्या। (१.२.४६ मभा. वार्त्तिकम्)
तत्रार्थवद्‌ग्रहणेन नामाव्ययानुकरणानि गृह्यन्ते। कृत्तद्धितसमासास्तु कण्ठोक्त्या। इति। नन्वेतेऽप्यर्थवन्त एव।
सत्यमेतत्। किन्तु कृत्तद्धिताश्‍च प्रत्ययाः, तेषामप्रातिपदिकग्रहणात् प्रातिपदिकसंज्ञा न प्राप्नोतीति कृत्तद्धितग्रहणेन तदुपसंगृह्‍णाति।
समासग्रहणेन त्वर्थवत्समुदायस्य समासस्यैव प्रातिपदिकसंज्ञेति ज्ञापयन् तथाविधस्य वाक्यस्यैतां निवर्त्तयति। तत्र—
अनपेक्षितशब्दव्युत्पत्तीनि सत्त्वभूतार्थाभिधायीनि च नामानि।
तानि द्विधा— १. आविष्टलिङ्गानि २. अनाविष्टलिङ्गानि चेति। तेषु —
१. जातिद्रव्यपरिमाणाभिधायीन्याविष्टलिङ्गानि। तत्र —
जातिर्द्विधा १. आकृतिव्यङ्ग्या २. उपदेशव्यङ्ग्या च।
तयोराद्या यथा— गौः, मृगः, पक्षी, सर्पः, सिंहः, वृक्षः, कुमारी, कुण्डम्, स्त्री, पुमान्, नपुंसकम् इति।
द्वितीया यथा— ब्राह्मणः, गार्ग्यः, कठः, क्षत्रियः, वैश्यः, शूद्रः, मूर्द्धाभिषिक्त अम्बष्ठः, पारशवः, सूतः, वैदेहकः, चण्डाल इति।
Full Table of Contents Next (Ch. 2) →