Skip to main content
Search
Ch. 1 SP 1.132
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.132

Canonical Ref: SP 1.132
Sanskrit (Devanāgarī)
अथ काद्रवेयः कामण्डलेय इति कथम्? ङ्यापोरप्रातिपदिकत्वेऽपि हि 'ङ्‌याप्प्रातिपदिकाद्' (४.१.१) इति विशेषविधानात्। यूनस्तिरित्येतस्य तु तद्धितत्वात् अस्तु सुबुत्पत्तिः, ऊङस्तु प्रत्ययत्वेन सा न सिद्ध्यति, समर्थाच्च तद्धितेन भवितव्यम्। अन्तादिवद्‌भावाद् भविष्यति, तथाहि 'ब्रह्मबन्धूरि'—त्यादौ 'अकःसवर्णे दीर्घः' (६.१.१०१) इति द्वयोरेकत्वं भवति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.132. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.131) All Verses in Chapter 1 Next Verse (SP 1.133) →